सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा समुत्सृजेद्भुक्तवताम् अग्रतो विकिरेद्भुवि
अग्निदग्धास्तु ये जीवा ये ऽप्यदग्धाः कुले मम भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमां गतिम्
येषां न माता न पिता न बन्धुर् न गोत्रशुद्धिर्न तथान्नम् अस्ति तत्तृप्तये ऽन्नं भुवि दत्तमेतत् प्रयान्तु लोकेषु सुखाय तद्वत्
असंस्कृतप्रमीतानां त्यक्तानां कुलयोषिताम् उच्छिष्टभागधेयः स्याद् दर्भे विकिरयोश्च यः
तृप्ताञ्ज्ञात्वोदकं दद्यात् सकृद्विप्रकरे तथा उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा
निधाय दर्भान्विधिवद् दक्षिणाग्रान् प्रयत्नतः सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत्
अवनेजनपूर्वं तु नामगोत्रेण मानवः गन्धधूपादिकं दद्यात् कृत्वा प्रत्यवनेजनम्
जान्वाच्य सव्यं सव्येन पाणिनाथ प्रदक्षिणम् पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना
दीपप्रज्वालनं तद्वत् कुर्यात्पुष्पार्चनं बुधः अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत्
अथ पुष्पाक्षतान् पश्चाद् अक्षय्योदकम् एव च सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम्
गोभूहिरण्यवासांसि भव्यानि शयनानि च दद्याद्यदिष्टं विप्राणाम् आत्मनः पितुरेव च
वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहन् ततः स्वधावाचनकं विश्वदेवेषु चोदकम्
दत्त्वाशीः प्रतिगृह्णीयाद् द्विजेभ्यः प्राङ्मुखो बुधः अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर् द्विजैः
गोत्रं तथा वर्धतां नस् तथेत्युक्तश्च तैः पुनः दातारो नो ऽभिवर्धन्ताम् इति चैवमुदीरयेत्
एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः स्वस्तिवाचनकं कुर्यात् पिण्डानुद्धृत्य भक्तितः
उच्छेषणं तु तत्तिष्ठेद् यावद्विप्रा विसर्जिताः ततो ग्रहबलिं कुर्याद् इति धर्मव्यवस्थितिः
उच्छेषणं भूमिगतम् अजिह्मस्यास्तिकस्य च दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते
पितृभिर् निर्मितं पूर्वम् एतदाप्यायनं सदा अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप
ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम् वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत्
बहिः प्रदक्षिणां कुर्यात् पदान्य् अष्टाव् अनुव्रजन् बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः
निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं समन्त्रवत् वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च
ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम्
एतच्चानुपनीतो ऽपि कुर्यात्सर्वेषु पर्वसु श्राद्धं साधारणं नाम सर्वकामफलप्रदम्
भार्याविरहितो ऽप्येतत् प्रवासस्थो ऽपि भक्तिमान् शूद्रो ऽप्यमन्त्रवत्कुर्याद् अनेन विधिना बुधः
तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले
मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् ततो मातामहा राजन् विश्वे देवास्तथैव च
प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः प्राङ्मुखो निर्वपेत्पिण्डान् दूर्वया च कुशैर्युतान्
सम्पन्नम् इत्यभ्युदये दद्यादर्घ्यं द्वयोर् द्वयोः युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः
तिलार्थस्तु यवैः कार्यो नान्दीशब्दानुपूर्वकः माङ्गल्यानि च सर्वाणि वाचयेद्द्विजपुंगवैः
एवं शूद्रो ऽपि सामान्यवृद्धिश्राद्धे ऽपि सर्वदा नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा