सखीभिः सहिता क्रीडां चक्रे कृत्रिमपुत्रकैः कदाचिद्गन्धतैलेन गात्रमभ्यज्य शैलजा
चूर्णैरुद्वर्तयामास मलिनान्तरितां तनुम् तदुद्वर्तनकं गृह्य नरं चक्रे गजाननम्
पुत्रकं क्रीडती देवी तं चाप्यर्पयदम्भसि जाह्नव्यास्तु शिवासख्यास् ततः सो ऽभूद्बृहद्वपुः
कायेनातिविशालेन जगदापूरयत्तदा पुत्रेत्युवाच ते देवी पुत्रेत्यूचे च जाह्नवी
गाङ्गेय इति देवैस्तु पूजितो ऽभूद्गजाननः विनायकाधिपत्यं च ददावस्य पितामहः
पुनः सा क्रीडनं चक्रे पुत्रार्थं वरवर्णिनी मनोज्ञमङ्कुरं रूढम् अशोकस्य शुभानना
वर्धयामास तं चापि कृतसंस्कारमङ्गला बृहस्पतिमुखैर्विप्रैर् दिवस्पतिपुरोगमैः
ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदं वचः भवानि भवती भव्या सम्भूता लोकभूतये
प्रायः सुतफलो लोकः पुत्रपौत्रैश्च लभ्यते अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः
अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभां गिरम्
एवं निरुदके देशे यः कूपं कारयेद्बुधः बिन्दौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि
दशकूपसमा वापी दशवापीसमो ह्रदः दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः एषैव मम मर्यादा नियता लोकभाविनी
इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य सादरम्
गतेषु तेषु देवो ऽपि शंकरः पर्वतात्मजाम् पाणिनालम्ब्य वामेन शनैः प्रावेशयच्छुभाम्
चित्तप्रसादजननं प्रासादमनुगोपुरम् लम्बमौक्तिकदामानं मालिकाकुलवेदिकम्
निर्धौतकलधौतं च क्रीडागुहमनोरमम् प्रकीर्णकुसुमामोदमत्तालिकुलकूजितम्
किंनरोद्गीतसंगीतगृहान्तरितभित्तिकम् सुगन्धिधूपसंघातमनःप्रार्थ्यमलक्षितम्
क्रीडन्मयूरनारीभिर् वृतं वै ततवादिभिः हंससंघातसंघुष्टं स्फटिकस्तम्भवेदिकम्
अनाविलमसंभ्रान्त्या बहुशः किंनराकुलम् शुकैर्यत्राभिहन्यन्ते पद्मरागविनिर्मिताः
भित्तयो दाडिमभ्रान्त्या प्रतिबिम्बितमौक्तिकाः तत्राक्षक्रीडया देवी विहर्तुमुपचक्रमे
स्वच्छेन्द्रनीलभूभागे क्रीडने यत्र धिष्ठितौ वपुःसहायतां प्राप्तौ विनोदरसनिर्वृतौ
एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा प्रादुर्भवन्महाशब्दस् तद्गृहोदरगोचरः
तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम् पप्रच्छ तं शुभतनुर् हरं विस्मयपूर्वकम्
उवाच देवीं नैतत्ते दृष्टपूर्वं सुविस्मिते एते गणेशाः क्रीडन्ते शैले ऽस्मिन्मत्प्रियाः सदा
तपसा ब्रह्मचर्येण नियमैः क्षेत्रसेवनैः यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः
मत्समीपमनुप्राप्ता मम हृद्याः शुभानने कामरूपा महोत्साहा महारूपगुणान्विताः
कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम् चराचरस्य जगतः सृष्टिसंहरणक्षमाः
ब्रह्मविष्ण्विन्द्रगन्धर्वैः सकिंनरमहोरगैः समावृतो ऽप्यहं नित्यं नैभिर्विरहितो रमे
हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ इत्युक्ता तु ततो देवी त्यक्त्वा तद्विस्मयाकुला
गवाक्षान्तरमासाद्य प्रेक्षते विस्मितानना यावन्तस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः