जग्राह मुदितः स्रग्वी बाहुभिर्बहुभूषणैः जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः
वादयन्तो ऽतिमधुरं जगुर् गन्धर्वकिंनराः मूर्ताश्च ऋतवस्तत्र जगुश्च ननृतुश्च वै
चपलाश्च गणास्तस्थुर् लोलयन्तो हिमाचलम् उत्तिष्ठन्क्रमशश्चात्र विश्वभुग्भगनेत्रहा
चकारौद्वाहिकं कृत्यं पत्न्या सह यथोचितम् दत्तार्घो गिरिराजेन सुरवृन्दैर् विनोदितः
अवसत्तां क्षपां तत्र पत्न्या सह पुरान्तकः ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि
स्तुतिभिर् देवदैत्यानां विबुद्धो विबुधाधिपः आमन्त्र्य हिमशैलेन्द्रं प्रभाते चोमया सह जगाम मन्दरगिरिं वायुवेगेन शृङ्गिणा
ततो गते भगवति नीललोहिते सहोमया रतिमलभन्न भूधरः सबान्धवो भवति च कस्य नो मनो विह्वलं च जगति हि कन्यकापितुः
ज्वलन्मणिस्फटिकहाटकोत्कटं स्फुटद्युति स्फटिकगोपुरं पुरम् हरो गिरौ चिरमनुकल्पितं तदा विसर्जितामरनिवहो ऽविशत्स्वकम्
तदोमासहितो देवो विजहार भगाक्षिहा पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च
सुरक्तहृदयो देव्या मकराङ्कपुरःसरः ततो बहुतिथे काले सुतकामा गिरेः सुता
सखीभिः सहिता क्रीडां चक्रे कृत्रिमपुत्रकैः कदाचिद्गन्धतैलेन गात्रमभ्यज्य शैलजा
चूर्णैरुद्वर्तयामास मलिनान्तरितां तनुम् तदुद्वर्तनकं गृह्य नरं चक्रे गजाननम्
पुत्रकं क्रीडती देवी तं चाप्यर्पयदम्भसि जाह्नव्यास्तु शिवासख्यास् ततः सो ऽभूद्बृहद्वपुः
कायेनातिविशालेन जगदापूरयत्तदा पुत्रेत्युवाच ते देवी पुत्रेत्यूचे च जाह्नवी
गाङ्गेय इति देवैस्तु पूजितो ऽभूद्गजाननः विनायकाधिपत्यं च ददावस्य पितामहः
पुनः सा क्रीडनं चक्रे पुत्रार्थं वरवर्णिनी मनोज्ञमङ्कुरं रूढम् अशोकस्य शुभानना
वर्धयामास तं चापि कृतसंस्कारमङ्गला बृहस्पतिमुखैर्विप्रैर् दिवस्पतिपुरोगमैः
ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदं वचः भवानि भवती भव्या सम्भूता लोकभूतये
प्रायः सुतफलो लोकः पुत्रपौत्रैश्च लभ्यते अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः
अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभां गिरम्
एवं निरुदके देशे यः कूपं कारयेद्बुधः बिन्दौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि
दशकूपसमा वापी दशवापीसमो ह्रदः दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः एषैव मम मर्यादा नियता लोकभाविनी
इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य सादरम्
गतेषु तेषु देवो ऽपि शंकरः पर्वतात्मजाम् पाणिनालम्ब्य वामेन शनैः प्रावेशयच्छुभाम्
चित्तप्रसादजननं प्रासादमनुगोपुरम् लम्बमौक्तिकदामानं मालिकाकुलवेदिकम्
निर्धौतकलधौतं च क्रीडागुहमनोरमम् प्रकीर्णकुसुमामोदमत्तालिकुलकूजितम्
किंनरोद्गीतसंगीतगृहान्तरितभित्तिकम् सुगन्धिधूपसंघातमनःप्रार्थ्यमलक्षितम्
क्रीडन्मयूरनारीभिर् वृतं वै ततवादिभिः हंससंघातसंघुष्टं स्फटिकस्तम्भवेदिकम्
अनाविलमसंभ्रान्त्या बहुशः किंनराकुलम् शुकैर्यत्राभिहन्यन्ते पद्मरागविनिर्मिताः
भित्तयो दाडिमभ्रान्त्या प्रतिबिम्बितमौक्तिकाः तत्राक्षक्रीडया देवी विहर्तुमुपचक्रमे