न किंनरैर् अभिभवितुं हि शक्यते विभूषणचयसमुद्भवो ध्वनिः अजातिजाः किमिति न षड्जमध्यम् अपृथुस्वरं बहुतरमत्र वक्ष्यते
नतानतानतनततानतां गताः पृथक्तया समयकृता विभिन्नताम् विशङ्किता भवदतिभेदशीलिनः प्रयान्त्यमी द्रुतपदमेव गौडकाः
विसंहताः किमिति न षाड्गवादयः स्वगीतकैर् ललितपदप्रयोगजैः प्रभोः पुरो भवति हि यस्य चाक्षतं समुद्गतार्थकमिति तत्प्रतीयते
अमी पृथग्विरचितरम्यरासकं विलासिनो बहुगमकस्वभावकम् प्रयुञ्जते गिरिशयशोविसारिणं प्रकीर्णकं बहुतरनागजातयः
अमी कथं ककुभि कथाः प्रतिक्षणं ध्वनन्ति ते विविधवधूविमिश्रिताः न जातयो ध्वनिमुरजासमीरिता न मूर्छिताः किमिति च मूर्छनात्मकाः
इतीरते गिरिमवधानशालिनः सुरासुराः सपदि तु वीरकाज्ञया नियामिताः प्रययुरतीव हर्षिताश् चराचरं जगदखिलं ह्यपूरयन्
इति स्तनत्ककुभि रसन्महार्णवे स्तनद्घने विदलितशैलकंदरे जगत्यभूत्तुमुल इवाकुलीकृतः पिनाकिना त्वरितगतेन भूधरः
परिज्वलत्कनकसहस्रतोरणं क्वचिन्मिलन्मरकतवेश्मवेदिकम् क्वचित् क्वचिद् विमलविदूरवेदिकं क्वचिद् गलज्जलधररम्यनिर्झरम्
चलद्ध्वजप्रवरसहस्रमण्डितं सुरद्रुमस्तबकविकीर्णचत्वरम् सितासितारुणरुचिधातुवर्णिकं श्रियोज्ज्वलं प्रविततमार्गगोपुरम्
तं प्रविशन्तमगात्प्रविलोक्य व्याकुलतां नगरं गिरिभर्तुः व्यग्रपुरन्ध्रिजनं जययुक्तं धावितमार्गजनाकुलरथ्यम्
हर्म्यगवाक्षगतामरनारीलोचननीलसरोरुहमालम् सुप्रकटा समदृश्यत काचित् स्वाभरणांशुवितानविगूढा
काप्यखिलीकृतमण्डनभूषा त्यक्तसखीप्रणया हरम् ऐक्षत् काचिदुवाच कलं गतमाना कातरतां सखि मा कुरु मूढे
दग्धमनोभव एव पिनाकी कामयते स्वयमेव विहर्तुम् काचिदपि स्वयमेव पतन्ती प्राह परां विरहस्खलिताङ्गीम्
मा चपले मदनव्यतिषङ्गं शंकरजं स्खलनेन वद त्वम् कापि कृतव्यवधानमदृष्ट्वा युक्तिवशाद्गिरिशो ह्ययमूचे
एष स यत्र सहस्रमखाद्या नाकसदामधिपाः स्वयमुक्तैः नामभिर् इन्दुजटं निजसेवाप्राप्तफलाय नतास्तु घटन्ते
एष न चैष स एष यदग्रे चर्मपरीततनुः शशिमौली धावति वज्रधरो ऽमरराजो मार्गममुं विवृतीकरणाय
एष स पद्मभवो ऽयमुपेत्य प्रांशुजटामृगचर्मनिगूढः सप्रणयं करघट्टितवक्त्रः किंचिदुवाच मितं श्रुतिमूले
एवमभूत्सुरनारिकुलानां चित्तविसंष्ठुलता गुरुरागात् शंकरसंश्रयणाद् गिरिजायाजन्मफलं परमं त्विति चोचुः
ततो हिमगिरेर्वेश्म विश्वकर्मनिवेदितम् महानीलमयस्तम्भं ज्वलत्काञ्चनकुट्टिमम्
मुक्ताजालपरिष्कारं ज्वलितौषधिदीपितम् क्रीडोद्यानसहस्राढ्यं काञ्चनाम्बुजदीर्घिकम्
महेन्द्रप्रमुखाः सर्वे सुरा दृष्ट्वा तदद्भुतम् नेत्राणि सफलान्यद्य मनोभिरिति ते दधुः
विमर्दक्षीणकेयूरा हरिणा द्वारि रोधिताः कथंचित्प्रमुखास्तत्र विविशुर्नाकवासिनः
प्रणतेनाचलेन्द्रेण पूजितो ऽथ चतुर्मुखः चकार विधिना सर्वं विधिमन्त्रपुरःसरम्
शर्वस्य पाणिग्रहणम् अग्निसाक्षिकमक्षतम् दाता महीभृतां नाथो होता देवश्चतुर्मुखः
वरः पशुपतिः साक्षात् कन्या विश्वारणिस्तथा चराचराणि भूतानि सुरासुरवराणि च
तत्राप्येते नियमतो ह्य् अभवन्व्यग्रमूर्तयः मुमोचाभिनवान्सर्वान् सस्यशालीन्रसौषधीः
व्यग्रा तु पृथिवी देवी सर्वभावमनोरमा गृहीत्वा वरुणः सर्वरत्नान्याभरणानि च
पुण्यानि च पवित्राणि नानारत्नमयानि तु तस्थौ साभरणो देवो हर्षदः सर्वदेहिनाम्
धनदश्चापि दिव्यानि हैमान्याभरणानि च जातरूपविचित्राणि प्रयतः समुपस्थितः
वायुर्ववौ सुसुरभिः सुखसंस्पर्शनो विभुः छत्रमिन्दुकरोद्भासि सुसितं च शतक्रतुः