शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम् दध्रे सरभसं स्विद्यद् विस्तीर्णमुखपङ्कजम्
वायुश्च विपुलं तीक्ष्णशृङ्गं हिमगिरिप्रभम् वृषं विभूषयामास हरयानं महौजसम्
वितेनुर्नयनान्तःस्थाः शम्भोः सूर्यानलेन्दवः स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः
चिताभस्म समाधाय कपाले रजतप्रभम् मनुजास्थिमयीं मालाम् आबबन्ध च पाणिना
प्रेताधिपः पुरो द्वारे सगदः समवर्तत नानाकारमहारत्नभूषणं धनदाहृतम्
विहायोदग्रसर्पेन्द्रकटकेन स्वपाणिना कर्णोत्तंसं चकारेशो वासुकिं तक्षकं स्वयम्
जलाधीशाहृतां स्थास्नुप्रसूनावेष्टितां पृथक् ततस्तु ते गणाधीशा विनयात्तत्र वीरकम्
प्रोचुर्व्यग्राकृते त्वं गां समावेदय शूलिने निष्पन्नाभरणं देवं प्रसाध्येशं प्रसाधनैः
सप्त वारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम् ततो विलोकितात्मानं महाम्बुधिजलोदरे
धरामालिङ्ग्य जानुभ्यां स्थाणुं प्रोवाच केशवः शोभसे देव रूपेण जगदानन्ददायिना
मातरः प्रेरयन् कामवधूं वैधव्यचिह्निताम् कालो ऽयमिति चालक्ष्य प्रकारेङ्गितसंज्ञया
ततस्ताश्चोदिता देवम् ऊचुः प्रहसिताननाः रतिः पुरस्तव प्राप्ता नाभाति मदनोज्झिता
ततस्तां संनिर्वायाह वामहस्ताग्रसंज्ञया प्रयाणं गिरिजावक्त्रदर्शनोत्सुकमानसः
ततो हरो हिमगिरिकन्दराकृतिं सितं कशामृदुहतिभिः प्रचोदयत् महावृषं गणतुमुलाहितेक्षणं स भूधरानशनिरिव प्रकम्पयन्
ततो हरिर्द्रुतपदपद्धतिः पुरः पुरःसरान्द्रुमनिकरेषु संश्रितान् धरारजःशबलितभूषणो ऽब्रवीत् प्रयात मा कुरुत पथो ऽस्य संकटम्
प्रभोः पुनः प्रथमनियोगमूर्जयन् सुतो ऽब्रवीद् भ्रुकुटिमुखो ऽपि वीरकः वियच्चरा वियति किमस्ति कान्तकं प्रयात नो धरणिधराविदूरतः
महार्णवाः कुरुत शिलोपमं पयः सुरद्विषागमनमहातिकर्दमम् गणेश्वराश् चपलतया न गम्यतां सुरेश्वरैः स्थिरमतिभिर् निरीक्ष्यते
न भृङ्गिणा स्वतनुमवेक्ष्य नीयते पिनाकिनः पृथुमुखमण्डम् अग्रतः वृथा यमः प्रकटितदन्तकोटरं त्वमायुधं वहसि विहाय संभ्रमम्
पदं न यद्रथतुरगैः पुरद्विषः प्रमुच्यते बहुतरमातृसंकुलम् अमी सुराः पृथगनुयायिभिर्वृताः पदातयो द्विगुणपथान् हरप्रियाः
स्ववाहनैः पवनविधूतचामरैश् चलध्वजैर्व्रजत विहारशालिभिः सुराः स्वकं किमिति सरागमूर्जितं विचार्यते नियतलयत्रयानुगम्
न किंनरैर् अभिभवितुं हि शक्यते विभूषणचयसमुद्भवो ध्वनिः अजातिजाः किमिति न षड्जमध्यम् अपृथुस्वरं बहुतरमत्र वक्ष्यते
नतानतानतनततानतां गताः पृथक्तया समयकृता विभिन्नताम् विशङ्किता भवदतिभेदशीलिनः प्रयान्त्यमी द्रुतपदमेव गौडकाः
विसंहताः किमिति न षाड्गवादयः स्वगीतकैर् ललितपदप्रयोगजैः प्रभोः पुरो भवति हि यस्य चाक्षतं समुद्गतार्थकमिति तत्प्रतीयते
अमी पृथग्विरचितरम्यरासकं विलासिनो बहुगमकस्वभावकम् प्रयुञ्जते गिरिशयशोविसारिणं प्रकीर्णकं बहुतरनागजातयः
अमी कथं ककुभि कथाः प्रतिक्षणं ध्वनन्ति ते विविधवधूविमिश्रिताः न जातयो ध्वनिमुरजासमीरिता न मूर्छिताः किमिति च मूर्छनात्मकाः
इतीरते गिरिमवधानशालिनः सुरासुराः सपदि तु वीरकाज्ञया नियामिताः प्रययुरतीव हर्षिताश् चराचरं जगदखिलं ह्यपूरयन्
इति स्तनत्ककुभि रसन्महार्णवे स्तनद्घने विदलितशैलकंदरे जगत्यभूत्तुमुल इवाकुलीकृतः पिनाकिना त्वरितगतेन भूधरः
परिज्वलत्कनकसहस्रतोरणं क्वचिन्मिलन्मरकतवेश्मवेदिकम् क्वचित् क्वचिद् विमलविदूरवेदिकं क्वचिद् गलज्जलधररम्यनिर्झरम्
चलद्ध्वजप्रवरसहस्रमण्डितं सुरद्रुमस्तबकविकीर्णचत्वरम् सितासितारुणरुचिधातुवर्णिकं श्रियोज्ज्वलं प्रविततमार्गगोपुरम्
तं प्रविशन्तमगात्प्रविलोक्य व्याकुलतां नगरं गिरिभर्तुः व्यग्रपुरन्ध्रिजनं जययुक्तं धावितमार्गजनाकुलरथ्यम्