यस्योपयोगि यद्रूपं सा च तत्प्राप्तये चिरम् घोरं तपस्यते बाला तेन रूपेण निर्वृतिः
यस्तद्व्रतानि दिव्यानि नयिष्यति समापनम् तत्र सावहिता तावत् तस्मात् सैव भविष्यति
इत्युक्त्वा गिरिणा सार्धं ते ययुर्यत्र शैलजा जितार्कज्वलनज्वाला तपस्तेजोमयी ह्युमा
प्रोचुस्तां मुनयः स्निग्धं संमान्य पथमागतम् रम्यं प्रियं मनोहारि मा रूपं तपसा दह
प्रातस्ते शंकरः पाणिम् एष पुत्रि ग्रहीष्यति वयमर्थितवन्तस्ते पितरं पूर्वमागताः
पित्रा सह गृहं गच्छ वयं यामः स्वमन्दिरम्
इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा त्वरमाणा ययौ वेश्म पितुर्दिव्यार्थशोभितम्
सा तत्र रजनीं मेने वर्षायुतसमां सती हरदर्शनसंजातमहोत्कण्ठा हिमाद्रिजा
ततो मुहूर्ते ब्राह्मे तु तस्याश्चक्रुः सुरस्त्रियः नानामङ्गलसंदोहान् यथावत्क्रमपूर्वकम्
दिव्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले उपासत गिरिं मूर्ता ऋतवः सार्वकामिकाः
वायवो वारिदाश्चासन् संमार्जनविधौ गिरेः हर्म्येषु श्रीः स्वयं देवी कृतनानाप्रसाधना
कान्तिः सर्वेषु भावेषु ऋद्धिश्चाभवदाकुला चिन्तामणिप्रभृतयो रत्नाः शैलं समन्ततः
उपतस्थुर्नगाश्चापि कल्पकाममहाद्रुमाः ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः
रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः किंकरास्तस्य शैलस्य व्यग्राश्चाज्ञानुवर्तिनः
नद्यः समुद्रा निखिलाः स्थावरं जङ्गमं च यत् तत्सर्वं हिमशैलस्य महिमानमवर्धयत्
अभवन्मुनयो नागा यक्षगन्धर्वकिंनराः शंकरस्यापि विबुधा गन्धमादनपर्वते
सर्वे मण्डनसंभारास् तस्थुर्निर्मलमूर्तयः शर्वस्यापि जटाजूटे चन्द्रखण्डं पितामहः
बबन्ध प्रणयोदारविस्फारितविलोचनः कपालमालां विपुलां चामुण्डा मूर्ध्न्यबन्धयत्
उवाच चापि वचनं पुत्रं जनय शंकर यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति
सौरिर् ज्वलच्छिरोरत्नमुकुटं चानलोल्बणम् भुजगाभरणं गृह्य सज्जं शंभोः पुरो ऽभवत्
शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम् दध्रे सरभसं स्विद्यद् विस्तीर्णमुखपङ्कजम्
वायुश्च विपुलं तीक्ष्णशृङ्गं हिमगिरिप्रभम् वृषं विभूषयामास हरयानं महौजसम्
वितेनुर्नयनान्तःस्थाः शम्भोः सूर्यानलेन्दवः स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः
चिताभस्म समाधाय कपाले रजतप्रभम् मनुजास्थिमयीं मालाम् आबबन्ध च पाणिना
प्रेताधिपः पुरो द्वारे सगदः समवर्तत नानाकारमहारत्नभूषणं धनदाहृतम्
विहायोदग्रसर्पेन्द्रकटकेन स्वपाणिना कर्णोत्तंसं चकारेशो वासुकिं तक्षकं स्वयम्
जलाधीशाहृतां स्थास्नुप्रसूनावेष्टितां पृथक् ततस्तु ते गणाधीशा विनयात्तत्र वीरकम्
प्रोचुर्व्यग्राकृते त्वं गां समावेदय शूलिने निष्पन्नाभरणं देवं प्रसाध्येशं प्रसाधनैः
सप्त वारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम् ततो विलोकितात्मानं महाम्बुधिजलोदरे
धरामालिङ्ग्य जानुभ्यां स्थाणुं प्रोवाच केशवः शोभसे देव रूपेण जगदानन्ददायिना