इत्युक्ता मुनयो जग्मुस् त्वरितास्तु हिमाचलम् तत्र ते पूजितास्तेन हिमशैलेन सादरम् ऊचुर्मुनिवराः प्रीताः स्वल्पवर्णं त्वरान्विताः
देवो दुहितरं साक्षात् पिनाकी तव मार्गते तच्छीघ्रं पावयात्मानम् आहुत्येवानलार्पणात्
कार्यमेतच्च देवानां सुचिरं परिवर्तते जगदुद्धरणायैष क्रियतां वै समुद्यमः
इत्युक्तस्तैस्तदा शैलो हर्षाविष्टो ऽवदन्मुनीन् असमर्थो ऽभवद्वक्तुम् उत्तरं प्रार्थयञ्छिवम्
ततो मेना मुनीन्वीक्ष्य प्रोवाच स्नेहविक्लवा दुहितुस्तान्मुनींश्चैव चरणाश्रयम् अर्थवित्
यदर्थं दुहितुर्जन्म नेच्छन्त्यपि महाफलम् तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम्
कुलजन्मवयोरूपविभूत्यृद्धियुतो ऽपि यः वरस्तस्यापि चाहूय सुता देया ह्ययाचतः
तत्समस्ततपोघोरं कथं पुत्री प्रयास्यति पुत्रीवाक्याद्यदत्रास्ति विधेयं तद्विधीयताम्
इत्युक्ता मुनयस्ते तु प्रियया हिमभूभृतः ऊचुः पुनरुदारार्थं नारीचित्तप्रसादकम्
ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुरैः आराध्यमानपादाब्जयुगलत्वात्सुनिर्वृतैः
यस्योपयोगि यद्रूपं सा च तत्प्राप्तये चिरम् घोरं तपस्यते बाला तेन रूपेण निर्वृतिः
यस्तद्व्रतानि दिव्यानि नयिष्यति समापनम् तत्र सावहिता तावत् तस्मात् सैव भविष्यति
इत्युक्त्वा गिरिणा सार्धं ते ययुर्यत्र शैलजा जितार्कज्वलनज्वाला तपस्तेजोमयी ह्युमा
प्रोचुस्तां मुनयः स्निग्धं संमान्य पथमागतम् रम्यं प्रियं मनोहारि मा रूपं तपसा दह
प्रातस्ते शंकरः पाणिम् एष पुत्रि ग्रहीष्यति वयमर्थितवन्तस्ते पितरं पूर्वमागताः
पित्रा सह गृहं गच्छ वयं यामः स्वमन्दिरम्
इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा त्वरमाणा ययौ वेश्म पितुर्दिव्यार्थशोभितम्
सा तत्र रजनीं मेने वर्षायुतसमां सती हरदर्शनसंजातमहोत्कण्ठा हिमाद्रिजा
ततो मुहूर्ते ब्राह्मे तु तस्याश्चक्रुः सुरस्त्रियः नानामङ्गलसंदोहान् यथावत्क्रमपूर्वकम्
दिव्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले उपासत गिरिं मूर्ता ऋतवः सार्वकामिकाः
वायवो वारिदाश्चासन् संमार्जनविधौ गिरेः हर्म्येषु श्रीः स्वयं देवी कृतनानाप्रसाधना
कान्तिः सर्वेषु भावेषु ऋद्धिश्चाभवदाकुला चिन्तामणिप्रभृतयो रत्नाः शैलं समन्ततः
उपतस्थुर्नगाश्चापि कल्पकाममहाद्रुमाः ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः
रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः किंकरास्तस्य शैलस्य व्यग्राश्चाज्ञानुवर्तिनः
नद्यः समुद्रा निखिलाः स्थावरं जङ्गमं च यत् तत्सर्वं हिमशैलस्य महिमानमवर्धयत्
अभवन्मुनयो नागा यक्षगन्धर्वकिंनराः शंकरस्यापि विबुधा गन्धमादनपर्वते
सर्वे मण्डनसंभारास् तस्थुर्निर्मलमूर्तयः शर्वस्यापि जटाजूटे चन्द्रखण्डं पितामहः
बबन्ध प्रणयोदारविस्फारितविलोचनः कपालमालां विपुलां चामुण्डा मूर्ध्न्यबन्धयत्
उवाच चापि वचनं पुत्रं जनय शंकर यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति
सौरिर् ज्वलच्छिरोरत्नमुकुटं चानलोल्बणम् भुजगाभरणं गृह्य सज्जं शंभोः पुरो ऽभवत्