प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत् गङ्गाम्बुप्लावितात्मानं पिङ्गबद्धजटासटम्
भृङ्गानुयातपाणिस्थमन्दारकुसुमस्रजम् गिरेः सम्प्राप्य ते प्रस्थं ददृशुः शंकराश्रमम्
प्रशान्ताशेषसत्त्वौघं नवस्तिमितकाननम् निःशब्दाक्षोभसलिलप्रपातं सर्वतोदिशम्
तत्रापश्यंस्ततो द्वारि वीरकं वेत्रपाणिनम् सप्त ते मुनयः पूज्या विनीताः कार्यगौरवात्
ऊचुर्मधुरभाषिण्या वाचा ते वाग्मिनां वराः द्रष्टुं वयमिहायाताः शरण्यं गणनायकम्
त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः त्वमेव नो गतिस्तत्त्वं यथा कालानतिक्रमः
सा प्रार्थनैषा प्रायेण प्रतीहारमयः प्रभुः इत्युक्तो मुनिभिः सो ऽथ गौरवात्तानुवाच सः
सवनस्यापरां संध्यां स्नातुं मन्दाकिनीजले क्षणेन भविता विप्रास् तत्र द्रक्ष्यथ शूलिनम्
इत्युक्ता मुनयस्तस्थुस् ते तत्कालप्रतीक्षिणः गम्भीराम्बुधरं प्रावृट्तृषिताश्चातका यथा
ततः क्षणेन निष्पन्नसमाधानक्रियाविधिः वीरासनं बिभेदेशो मृगचर्मनिवासितम्
ततो विनीतो जानुभ्याम् अवलम्ब्य महीस्थितिम् उवाच वीरको देवं प्रणामैकसमाश्रयः
सम्प्राप्ता मुनयः सप्त त्वां द्रष्टुं दीप्ततेजसः विभो समादिश द्रष्टुम् अवगन्तुम् इहार्हसि ते ऽब्रुवन्देवकार्येण तव दर्शनलालसाः
इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना भूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा
मूर्ध्नः कम्पेन तान्सर्वान् वीरको ऽपि महामुनीन् आजुहावाविदूरस्थान् दर्शनाय पिनाकिनः
त्वराबद्धार्धचूडास्ते लम्बमानाजिनाम्बराः विविशुर्वेदिकां सिद्धां गिरिशस्य विभूतिभिः
बद्धपाणिपुटाक्षिप्तनाकपुष्पोत्करास्ततः पिनाकिपादयुगलं वन्द्यं नाकनिवासिनाम्
ततः स्निग्धेक्षिताः शान्ता मुनयः शूलपाणिना मन्मथारिं ततो हृष्टाः समं तुष्टुवुरादृताः
अहो कृतार्था वयमेव सांप्रतं सुरेश्वरो ऽप्यत्र वरो भविष्यति भवत्प्रसादामलवारिसेकतः फलेन काचित् तपसा नियुज्यते
जयत्यसौ धन्यतरो हिमाचलस् तदाश्रयं यस्य सुता तपस्यति स दैत्यराजो ऽपि महाफलोदयो विमूलिताशेषसुरो हि तारकः
त्वदीयमंशं प्रविलोक्य कल्मषात् स्वकं शरीरं परिमोक्ष्यते हि यः स धन्यधीर्लोकपिता चतुर्मुखो हरिश्च यत्संभ्रमवह्निदीपितः
त्वदङ्घ्रियुग्मं हृदयेन बिभ्रतो महाभितापप्रशमैकहेतुकम् त्वमेव चैको विविधाकृतक्रियः किलेति वाचा विधुरैर् विभाष्यते
अथाद्य एकस्त्वमवादि नान्यथा जगत्तथा निर्घृणतां तव स्पृशेत् न वेत्सि वा दुःखमिदं प्रजात्मकं विहन्यते ते खलु सर्वतः क्रिया
उपेक्षसे चेज् जगतामुपद्रवं दयामयत्वं तव केन कथ्यते स्वयोगमायामहिमागुहाश्रयं न विद्यते निर्मलभूतिगौरवम्
वयं च ते धन्यतराः शरीरिणां यदीदृशं त्वां प्रविलोकयामहे अदर्शनं तेन मनोरथो यथा प्रयाति साफल्यतया मनोगतम्
जगद्विधानैकविधौ जगन्मुखे करिष्यसे ऽतो बलभिच्चरा वयम् विनेमुरित्थं मुनयो विसृज्य तां गिरं गिरीशश्रुतिभूमिसंनिधौ
उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः
तेषां श्रुत्वा तु तां रम्यां प्रक्रमोपक्रमक्रियाम् वाचं वाचस्पतिस्तुष्टः प्रोवाच स्मितसुन्दरीम्
जाने लोकविधानस्य कन्या सत्कार्यमुत्तमम् जाता प्रालेयशैलस्य संकेतकनिरूपणाः
सत्यमुत्कण्ठिताः सर्वे देवकार्यार्थमुद्यताः तेषां त्वरन्ति चेतांसि किंतु कार्यं विवक्षितम्
लोकयात्रानुगन्तव्या विशेषेण विचक्षणैः सेवन्ते ते यतो धर्मं तत्प्रामाण्यात्परे स्थिताः