धीबलैश्वर्यकार्यादिप्रमाणं महतां महत् यस्मान्न किंचिदपरं सर्वं यस्मात्प्रवर्तते
यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गता एष मे व्यवसायश्च दीर्घो ऽतिविपरीतकः
यात वा तिष्ठतैवाथ मुनयो मद्विधायकाः एवं निशम्य वचनं देव्या मुनिवरास्तदा
आनन्दाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीम् ऊचुश्च परमप्रीताः शैलजां मधुरं वचः
अत्यद्भुतास्यहो पुत्रि ज्ञानमूर्तिरिवामला प्रसादयति नो भावं भवभावप्रतिश्रयात्
ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम् त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः
अचिरादेव तन्वङ्गि कामस्ते ऽयं भविष्यति क्वादित्यस्य प्रभा याति रत्नेभ्यः क्व द्युतिः पृथक्
को ऽर्थो वर्णालिकाव्यक्तः कथं त्वं गिरिशं विना यामो नैकाभ्युपायने तमभ्यर्थयितुं वयम्
अस्माकमपि वै सो ऽर्थः सुतरां हृदि वर्तते अतस्त्वमेव सा बुद्धिर् यतो नीतिस्त्वमेव हि
अतो निःसंशयं कायं शंकरो ऽपि विधास्यति इत्युक्त्वा पूजिता याता मुनयो गिरिकन्यया
प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत् गङ्गाम्बुप्लावितात्मानं पिङ्गबद्धजटासटम्
भृङ्गानुयातपाणिस्थमन्दारकुसुमस्रजम् गिरेः सम्प्राप्य ते प्रस्थं ददृशुः शंकराश्रमम्
प्रशान्ताशेषसत्त्वौघं नवस्तिमितकाननम् निःशब्दाक्षोभसलिलप्रपातं सर्वतोदिशम्
तत्रापश्यंस्ततो द्वारि वीरकं वेत्रपाणिनम् सप्त ते मुनयः पूज्या विनीताः कार्यगौरवात्
ऊचुर्मधुरभाषिण्या वाचा ते वाग्मिनां वराः द्रष्टुं वयमिहायाताः शरण्यं गणनायकम्
त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः त्वमेव नो गतिस्तत्त्वं यथा कालानतिक्रमः
सा प्रार्थनैषा प्रायेण प्रतीहारमयः प्रभुः इत्युक्तो मुनिभिः सो ऽथ गौरवात्तानुवाच सः
सवनस्यापरां संध्यां स्नातुं मन्दाकिनीजले क्षणेन भविता विप्रास् तत्र द्रक्ष्यथ शूलिनम्
इत्युक्ता मुनयस्तस्थुस् ते तत्कालप्रतीक्षिणः गम्भीराम्बुधरं प्रावृट्तृषिताश्चातका यथा
ततः क्षणेन निष्पन्नसमाधानक्रियाविधिः वीरासनं बिभेदेशो मृगचर्मनिवासितम्
ततो विनीतो जानुभ्याम् अवलम्ब्य महीस्थितिम् उवाच वीरको देवं प्रणामैकसमाश्रयः
सम्प्राप्ता मुनयः सप्त त्वां द्रष्टुं दीप्ततेजसः विभो समादिश द्रष्टुम् अवगन्तुम् इहार्हसि ते ऽब्रुवन्देवकार्येण तव दर्शनलालसाः
इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना भूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा
मूर्ध्नः कम्पेन तान्सर्वान् वीरको ऽपि महामुनीन् आजुहावाविदूरस्थान् दर्शनाय पिनाकिनः
त्वराबद्धार्धचूडास्ते लम्बमानाजिनाम्बराः विविशुर्वेदिकां सिद्धां गिरिशस्य विभूतिभिः
बद्धपाणिपुटाक्षिप्तनाकपुष्पोत्करास्ततः पिनाकिपादयुगलं वन्द्यं नाकनिवासिनाम्
ततः स्निग्धेक्षिताः शान्ता मुनयः शूलपाणिना मन्मथारिं ततो हृष्टाः समं तुष्टुवुरादृताः
अहो कृतार्था वयमेव सांप्रतं सुरेश्वरो ऽप्यत्र वरो भविष्यति भवत्प्रसादामलवारिसेकतः फलेन काचित् तपसा नियुज्यते
जयत्यसौ धन्यतरो हिमाचलस् तदाश्रयं यस्य सुता तपस्यति स दैत्यराजो ऽपि महाफलोदयो विमूलिताशेषसुरो हि तारकः
त्वदीयमंशं प्रविलोक्य कल्मषात् स्वकं शरीरं परिमोक्ष्यते हि यः स धन्यधीर्लोकपिता चतुर्मुखो हरिश्च यत्संभ्रमवह्निदीपितः