पितुरेवास्ति तत्सर्वं सुरेभ्यो यन्न विद्यते अतस्तत्प्राप्तये क्लेशः स वाप्यत्राफलस्तव
प्रायेण प्रार्थितो भद्रे सुस्वल्पो ह्यतिदुर्लभः अस्य ते विधियोगस्य धाता कर्तात्र चैव हि
इत्युक्ता सा तु कुपिता मुनिवर्येषु शैलजा उवाच कोपरक्ताक्षी स्फुरद्भिर्दशनच्छदैः
असद्ग्रहस्य का प्रीतिर् व्यसनस्य क्व यन्त्रणा विपरीतार्थबोद्धारः सत्पथे केन योजिताः
एवं मां वेत्थ दुष्प्रज्ञां ह्य् अस्थानासद्ग्रहप्रियाम् न मां प्रतिविचारो ऽस्ति यत्रेहासद्ग्रहावितौ
प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः नूनं न वेत्थ तं देवं शाश्वतं जगतः प्रभुम्
अजमीशानमव्यक्तम् अमेयमहिमोदयम्
आस्तां तद्धर्मसद्भावसंबोधस्तावदद्भुतः विदुर्यं न हरिब्रह्मप्रमुखा हि सुरेश्वराः
यत्तस्य विभवात्स्वोत्थं भुवनेषु विजृम्भितम् प्रकटं सर्वभूतानां तदप्यत्र न वेत्थ किम्
कस्यैतद्गगनं भूरितः कस्याग्निः कस्य मारुतः कस्य भूः कस्य वरुणः कश्चन्द्रार्कविलोचनः
कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः यं ब्रुवन्तीश्वरं देवा विधीन्द्राद्या महर्षयः
प्रभावं प्रभवं चैष तेषामपि न वेत्थ किम् अदितिः कस्य मातेयं कस्माज्जातो जनार्दनः
अदितेः कश्यपाज्जाता देवा नारायणादयः मरीचेः कश्यपः पुत्रो ह्य् अदितिर्दक्षपुत्रिका
मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल ब्रह्मा हिरण्मयात्त्वण्डाद् दिव्यसिद्धिविभूतिकम्
कस्य प्रादुरभूद्ध्यानात् प्रक्षुब्धाः प्राकृतांशकाः प्रकृतौ तु तृतीयायां मधुद्विड्जननक्रिया
जाता ससर्ज षड्वर्गान् बुद्धिपूर्वान् स्वकर्मजान् अजातको ऽभवद्वेधा ब्रह्मणो ऽव्यक्तजन्मनः
यः स्वयोगेन संक्षोभ्य प्रकृतिं कृतवानिदम् ब्रह्मणः सिद्धसर्वार्थम् ऐश्वर्यं लोककर्तृताम्
विदुर्विष्ण्वादयो यच्च स्वमहिम्ना सदैव हि कृत्वान्यं देहम् अन्या दृक् तादृक् कृत्वा पुनर्हरिः
कुरुते जगतः कृत्यम् उत्तमाधममध्यमम् एवमेव हि संसारो यो जन्ममरणात्मकः
कर्मणश्च फलं ह्येतन् नानारूपसमुद्भवम् अथ नारायणो देवः स्वकां छायां समाश्रयत्
तत्प्रेरितः प्रकुरुते जन्म नानाप्रकारकम् सापि कर्मण एवोक्ता प्रेरणा विवशात्मनाम्
यथोन्मादादिजुष्टस्य मतिरेव हि सा भवेत् इष्टान्येव यथार्थानि विपरीतानि मन्यते
लोकस्य व्यवहारेषु सृष्टेषु सहते सदा धर्माधर्मफलावाप्तौ विष्णुरेव निबोधितः
अथानादित्वमस्यास्ति सामान्यात्तु तदात्मना न ह्यस्य जीवितं दीर्घं दृष्टं देहे तु कुत्रचित्
भवद्भिर्यस्य नो दृष्टम् अन्तरग्रमथापि वा देहिनां धर्म एवैष क्वचिज्जायेत्कचिन्म्रियेत्
क्वचिद्गर्भगतो नश्येत् क्वचिज् जीवेज्जरामयः क्वचित्समाः शतं जीवेत् क्वचिद्बाल्ये विपद्यते
शतायुः पुरुषो यस्तु सो ऽनन्तः स्वल्पजन्मनः जीवितो न म्रियत्यग्रे तस्मात्सो ऽमर उच्यते
अदृष्टजन्मनिधना ह्य् एवं विष्ण्वादयो मताः एतत्संशुद्धमैश्वर्यं संसारे को लभेदिह
तत्र क्षयादियोगात्तु नानाश्चर्यस्वरूपिणि तस्माद्दिवश्चरान्सर्वान् मलिनान्स्वल्पभूतिकान्
नाहं भद्राः किलेच्छामि ऋते शर्वात्पिनाकिनः स्थितं च तारतम्येन प्राणिनां परमं त्विदम्