त्यक्त्वा व्रतात्मकं मौनं मौनं जग्राह ह्रीमयम् भावं तस्यास्तु मौनान्तं तस्याः सप्तर्षयो यथा
गौरवाधीनतां प्राप्ताः पप्रच्छुस्तां पुनस्तथा सापि गौरवगर्भेण मनसा चारुहासिनी
मुनीञ्शान्तकथालापान् प्रेक्ष्य प्रोवाच वाग्यमम् भगवन्तो विजानन्ति प्राणिनां मानसं हितम्
मनोगतीभिरत्यर्थं कदर्थन्ते हि देहिनः केचित् तु निपुणास्तत्र घटन्ते विबुधोद्यमैः
उपायैर्दुर्लभान्भावान् प्राप्नुवन्ति ह्यतन्द्रिताः अपरे तु परिच्छिन्ना नानाकाराभ्युपक्रमाः
देहान्तरार्थमारम्भम् आश्रयन्ति हितप्रदम् मम त्वाकाशसम्भूतपुष्पदामा विभूषितम्
वन्ध्या सुतं प्राप्तुकामा मनः प्रसरते मुहुः अहं किल भवं देवं पतिं प्राप्तुं समुद्यता
प्रकृत्यैव दुराधर्षं तपस्यन्तं तु संप्रति सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयम्
सांप्रतं चापि निर्दग्धमदनं वीतरागिणम् कथमाराधयेदीशं मादृशी तादृशं शिवम्
इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम्
द्विविधं तु सुखं तावत् पुत्रि लोकेषु भाव्यते शरीरस्यास्य संभोगैश् चेतसश्चापि निर्वृतिः
प्रकृत्या स तु दिग्वासा भीमः पितृवणेशयः कपाली भिक्षुको नग्नो विरूपाक्षः स्थिरक्रियः
प्रमत्तोन्मत्तकाकारो बीभत्सकृतसंग्रहः यतिना तेन कस्ते ऽर्थो मूर्तानर्थेन काङ्क्षितः
यदि ह्यस्य शरीरस्य भोगमिच्छसि सांप्रतम् तत्कथं ते महादेवाद् भयभाजो जुगुप्सितात्
स्रवद्रक्तवसाभ्यक्तकपालकृतभूषणात् श्वसदुग्रभुजंगेन्द्रकृतभूषणभीषणात्
श्मशानवासिनो रौद्रप्रमथानुगतात् सति सुरेन्द्रमुकुटव्रातनिघृष्टचरणो ऽरिहा
हरिरस्ति जगद्धाता श्रीकान्तो ऽनन्तमूर्तिमान् नाथो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः
देवतानां निधिश्चास्ति ज्वलनः सर्वकामकृत् वायुरस्ति जगद्धाता यः प्राणः सर्वदेहिनाम्
तथा वैश्रवणो राजा सर्वार्थमतिमान्विभुः एभ्य एकतमं कस्मान् न त्वं सम्प्राप्तुमिच्छसि
उतान्यदेहसंप्राप्त्या सुखं ते मनसेप्सितम् एवमेतत्तवाप्यत्र प्रभवो नाकसंपदाम् अस्मिन्नेव पराः सर्वाः कल्याणप्राप्तयस्तव
पितुरेवास्ति तत्सर्वं सुरेभ्यो यन्न विद्यते अतस्तत्प्राप्तये क्लेशः स वाप्यत्राफलस्तव
प्रायेण प्रार्थितो भद्रे सुस्वल्पो ह्यतिदुर्लभः अस्य ते विधियोगस्य धाता कर्तात्र चैव हि
इत्युक्ता सा तु कुपिता मुनिवर्येषु शैलजा उवाच कोपरक्ताक्षी स्फुरद्भिर्दशनच्छदैः
असद्ग्रहस्य का प्रीतिर् व्यसनस्य क्व यन्त्रणा विपरीतार्थबोद्धारः सत्पथे केन योजिताः
एवं मां वेत्थ दुष्प्रज्ञां ह्य् अस्थानासद्ग्रहप्रियाम् न मां प्रतिविचारो ऽस्ति यत्रेहासद्ग्रहावितौ
प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः नूनं न वेत्थ तं देवं शाश्वतं जगतः प्रभुम्
अजमीशानमव्यक्तम् अमेयमहिमोदयम्
आस्तां तद्धर्मसद्भावसंबोधस्तावदद्भुतः विदुर्यं न हरिब्रह्मप्रमुखा हि सुरेश्वराः
यत्तस्य विभवात्स्वोत्थं भुवनेषु विजृम्भितम् प्रकटं सर्वभूतानां तदप्यत्र न वेत्थ किम्
कस्यैतद्गगनं भूरितः कस्याग्निः कस्य मारुतः कस्य भूः कस्य वरुणः कश्चन्द्रार्कविलोचनः