निराहारा शतं साभूत् समानां तपसां निधिः तत उद्वेजिताः सर्वे प्राणिनस्तत्तपो ऽग्निना
ततः सस्मार भगवान् मुनीन्सप्त शतक्रतुः ते समागम्य मुनयः सर्वे समुदितास्ततः
पूजिताश्च महेन्द्रेण पप्रच्छुस्तं प्रयोजनम् किमर्थं तु सुरश्रेष्ठ संस्मृतास्तु वयं त्वया
शक्रः प्रोवाच शृण्वन्तु भगवन्तः प्रयोजनम् हिमाचले तपो घोरं तप्यते भूधरात्मजा तस्या ह्यभिमतं कामं भवन्तः कर्तुमर्हथ
ततः समापतन्देव्या जगदर्थं त्वरान्विताः तथेत्युक्त्वा तु शैलेन्द्रं सिद्धसंघातसेवितम्
ऊचुरागत्य मुनयस् तामथो मधुराक्षरम् पुत्रि किं ते व्यवसितः कामः कमललोचने
तानुवाच ततो देवी सलज्जा गौरवान्मुनीन् तपस्यतो महाभागाः प्राप्य मौने भवादृशान्
वन्दनाय नियुक्ता धीः पावयत्यविकल्पितम् प्रश्नोन्मुखत्वाद्भवतां युक्तमासनमादितः
उपविष्टाः श्रमोन्मुक्तास् ततः प्रक्ष्यथ मामतः इत्युक्त्वा सा ततश्चक्रे कृतासनपरिग्रहान्
सा तु तान्विधिवत्पूज्यान् पूजयित्वा विधानतः उवाचादित्यसंकाशान् मुनीन्सप्त सती शनैः
त्यक्त्वा व्रतात्मकं मौनं मौनं जग्राह ह्रीमयम् भावं तस्यास्तु मौनान्तं तस्याः सप्तर्षयो यथा
गौरवाधीनतां प्राप्ताः पप्रच्छुस्तां पुनस्तथा सापि गौरवगर्भेण मनसा चारुहासिनी
मुनीञ्शान्तकथालापान् प्रेक्ष्य प्रोवाच वाग्यमम् भगवन्तो विजानन्ति प्राणिनां मानसं हितम्
मनोगतीभिरत्यर्थं कदर्थन्ते हि देहिनः केचित् तु निपुणास्तत्र घटन्ते विबुधोद्यमैः
उपायैर्दुर्लभान्भावान् प्राप्नुवन्ति ह्यतन्द्रिताः अपरे तु परिच्छिन्ना नानाकाराभ्युपक्रमाः
देहान्तरार्थमारम्भम् आश्रयन्ति हितप्रदम् मम त्वाकाशसम्भूतपुष्पदामा विभूषितम्
वन्ध्या सुतं प्राप्तुकामा मनः प्रसरते मुहुः अहं किल भवं देवं पतिं प्राप्तुं समुद्यता
प्रकृत्यैव दुराधर्षं तपस्यन्तं तु संप्रति सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयम्
सांप्रतं चापि निर्दग्धमदनं वीतरागिणम् कथमाराधयेदीशं मादृशी तादृशं शिवम्
इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम्
द्विविधं तु सुखं तावत् पुत्रि लोकेषु भाव्यते शरीरस्यास्य संभोगैश् चेतसश्चापि निर्वृतिः
प्रकृत्या स तु दिग्वासा भीमः पितृवणेशयः कपाली भिक्षुको नग्नो विरूपाक्षः स्थिरक्रियः
प्रमत्तोन्मत्तकाकारो बीभत्सकृतसंग्रहः यतिना तेन कस्ते ऽर्थो मूर्तानर्थेन काङ्क्षितः
यदि ह्यस्य शरीरस्य भोगमिच्छसि सांप्रतम् तत्कथं ते महादेवाद् भयभाजो जुगुप्सितात्
स्रवद्रक्तवसाभ्यक्तकपालकृतभूषणात् श्वसदुग्रभुजंगेन्द्रकृतभूषणभीषणात्
श्मशानवासिनो रौद्रप्रमथानुगतात् सति सुरेन्द्रमुकुटव्रातनिघृष्टचरणो ऽरिहा
हरिरस्ति जगद्धाता श्रीकान्तो ऽनन्तमूर्तिमान् नाथो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः
देवतानां निधिश्चास्ति ज्वलनः सर्वकामकृत् वायुरस्ति जगद्धाता यः प्राणः सर्वदेहिनाम्
तथा वैश्रवणो राजा सर्वार्थमतिमान्विभुः एभ्य एकतमं कस्मान् न त्वं सम्प्राप्तुमिच्छसि
उतान्यदेहसंप्राप्त्या सुखं ते मनसेप्सितम् एवमेतत्तवाप्यत्र प्रभवो नाकसंपदाम् अस्मिन्नेव पराः सर्वाः कल्याणप्राप्तयस्तव