कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि नैतदल्पमहं मन्ये कारणं लोकसुन्दरि
सा तस्य वचनं श्रुत्वा उवाच मधुना सह रुदती शोकजननं श्वसती दैन्यवर्धनम्
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत गिरावस्मिन्महाभाग गिरिशस्तपसि स्थितः
तेन प्रत्यूहरुष्टेन विस्फार्यालोक्य लोचनम् दग्धो ऽसौ झषकेतुस्तु मम कान्तो ऽतिवल्लभः
अहं तु शरणं याता तं देवं भयविह्वला स्तुतवत्यथ संस्तुत्या ततो मां गिरिशो ऽब्रवीत्
तुष्टो ऽहं कामदयिते कामो ऽयं ते भविष्यति त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः
प्रतीक्षन्ती च तद्वाक्यम् आशावेशादिभिर्ह्यहम् शरीरं परिरक्षिष्ये कंचित्कालं महाद्युते
इत्युक्तस्तु तदा रत्या शैलः संभ्रमभीषितः पाणावादाय हि सुतां गन्तुमैच्छत्स्वकं पुरम्
भाविनो ऽवश्यभावित्वाद् भवित्री भूतभाविनी लज्जमाना सखिमुखैर् उवाच पितरं गिरिम्
दुर्भाग्येण शरीरेण किं ममानेन कारणम् कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत्
तपोभिः प्राप्यते ऽभीष्टं नासाध्यं हि तपस्यतः दुर्भगत्वं वृथा लोको वहते सति साधने
जीविताद्दुर्भगाच्छ्रेयो मरणं ह्यतपस्यतः भविष्यामि न संदेहो नियमैः शोषये तनुम्
तपसि भ्रष्टसंदेह उद्यमो ऽर्थजिगीषया साहं तपः करिष्यामि यदहं प्राप्य दुर्लभा
इत्युक्तः शैलराजस्तु दुहित्रा स्नेहविक्लवः उवाच वाचा शैलेन्द्रः स्नेहगद्गदवर्णया
उमेति चपले पुत्रि न क्षमं तावकं वपुः सोढुं क्लेशस्वरूपस्य तपसः सौम्यदर्शने
भावीन्यभिविचार्याणि पदार्थानि सदैव तु भाविनो ऽर्था भवन्त्येव हठेनानिच्छतो ऽपि वा
तस्मान्न तपसा ते ऽस्ति बाले किंचित्प्रयोजनम् भवनायैव गच्छामश् चिन्तयिष्यामि तत्र वै
इत्युक्ता तु यदा नैव गुहायाभ्येति शैलजा ततः स चिन्तयाविष्टो दुहितां प्रशशंस च
ततो ऽन्तरिक्षे दिव्या वाग् अभूद्भुवनभूतले उमेति चपले पुत्रि त्वयोक्ता तनया ततः
उमेति नाम तेनास्या भुवनेषु भविष्यति सिद्धिं च मूर्तिमत्येषा साधयिष्यति चिन्तिताम्
इति श्रुत्वा तु वचनम् आकाशात्काशपाण्डुरः अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरम्
शैलजापि ययौ शैलम् अगम्यमपि दैवतैः सखीभ्यामनुयाता तु नियता नगराजजा
शृङ्गं हिमवतः पुण्यं नानाधातुविभूषितम् दिव्यपुष्पलताकीर्णं सिद्धगन्धर्वसेवितम्
नानामृगगणाकीर्णं भ्रमरोद्घुष्टपादपम् दिव्यप्रस्रवणोपेतं दीर्घिकाभिरलंकृतम्
नानापक्षिगणाकीर्णं चक्रवाकोपशोभितम् जलजस्थलजैः पुष्पैः प्रोत्फुल्लैरुपशोभितम्
चित्रकन्दरसंस्थानं गुहागृहमनोहरम् विहङ्गसंघसंजुष्टं कल्पपादपसंकटम्
तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम् सर्वर्तुकुसुमोपेतं मनोरथशतोज्ज्वलम्
नानापुष्पसमाकीर्णं नानाविधफलान्वितम् नतं सूर्यस्य रुचिभिर् भिन्नसंहृतपल्लवम्
तत्राम्बराणि संत्यज्य भूषणानि च शैलजा संवीता वल्कलैर्दिव्यैर् दर्भनिर्मितमेखला
त्रिःस्नाता पाटलाहारा बभूव शरदां शतम् शतमेकेन शीर्णेन पर्णेनावर्तयत्तदा