प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीतपर्यायपरापरार्थः त्वमेवमेको भुवनस्य नाथो दयालुरुन्मूलितभक्तभीतिः
इत्थं स्तुतः शंकर ईड्य ईशो वृषाकपिर्मन्मथकान्तया तु तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य
भवितेति च कामो ऽयं कालात्कान्तो ऽचिरादपि अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति
इत्युक्ता शिरसावन्द्य गिरिशं कामवल्लभा जगामोपवनं रम्यं रतिस्तु हिमभूभृतः
रुरोद चापि बहुशो दीना रम्ये स्थले तु सा मरणव्यवसायात्तु निवृत्ता सा हराज्ञया
अथ नारदवाक्येन चोदितो हिमभूधरः कृताभरणसंस्कारां कृतकौतुकमङ्गलाम्
स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकाम्बराम् शराभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः
जगाम शुभयोगेन तदा सम्पूर्णमानसः सकाननान्युपाक्रम्य वनान्युपवनानि च
ददर्श रुदतीं नारीम् अप्रतर्क्यमहौजसम् रूपेणासदृशीं लोके रम्येषु वनसानुषु
कौतुकेन परामृश्य तां दृष्ट्वा रुदतीं गिरिः उपसर्प्य ततस्तस्या निकटे सो ऽभ्यपृच्छत
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि नैतदल्पमहं मन्ये कारणं लोकसुन्दरि
सा तस्य वचनं श्रुत्वा उवाच मधुना सह रुदती शोकजननं श्वसती दैन्यवर्धनम्
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत गिरावस्मिन्महाभाग गिरिशस्तपसि स्थितः
तेन प्रत्यूहरुष्टेन विस्फार्यालोक्य लोचनम् दग्धो ऽसौ झषकेतुस्तु मम कान्तो ऽतिवल्लभः
अहं तु शरणं याता तं देवं भयविह्वला स्तुतवत्यथ संस्तुत्या ततो मां गिरिशो ऽब्रवीत्
तुष्टो ऽहं कामदयिते कामो ऽयं ते भविष्यति त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः
प्रतीक्षन्ती च तद्वाक्यम् आशावेशादिभिर्ह्यहम् शरीरं परिरक्षिष्ये कंचित्कालं महाद्युते
इत्युक्तस्तु तदा रत्या शैलः संभ्रमभीषितः पाणावादाय हि सुतां गन्तुमैच्छत्स्वकं पुरम्
भाविनो ऽवश्यभावित्वाद् भवित्री भूतभाविनी लज्जमाना सखिमुखैर् उवाच पितरं गिरिम्
दुर्भाग्येण शरीरेण किं ममानेन कारणम् कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत्
तपोभिः प्राप्यते ऽभीष्टं नासाध्यं हि तपस्यतः दुर्भगत्वं वृथा लोको वहते सति साधने
जीविताद्दुर्भगाच्छ्रेयो मरणं ह्यतपस्यतः भविष्यामि न संदेहो नियमैः शोषये तनुम्
तपसि भ्रष्टसंदेह उद्यमो ऽर्थजिगीषया साहं तपः करिष्यामि यदहं प्राप्य दुर्लभा
इत्युक्तः शैलराजस्तु दुहित्रा स्नेहविक्लवः उवाच वाचा शैलेन्द्रः स्नेहगद्गदवर्णया
उमेति चपले पुत्रि न क्षमं तावकं वपुः सोढुं क्लेशस्वरूपस्य तपसः सौम्यदर्शने
भावीन्यभिविचार्याणि पदार्थानि सदैव तु भाविनो ऽर्था भवन्त्येव हठेनानिच्छतो ऽपि वा
तस्मान्न तपसा ते ऽस्ति बाले किंचित्प्रयोजनम् भवनायैव गच्छामश् चिन्तयिष्यामि तत्र वै
इत्युक्ता तु यदा नैव गुहायाभ्येति शैलजा ततः स चिन्तयाविष्टो दुहितां प्रशशंस च
ततो ऽन्तरिक्षे दिव्या वाग् अभूद्भुवनभूतले उमेति चपले पुत्रि त्वयोक्ता तनया ततः
उमेति नाम तेनास्या भुवनेषु भविष्यति सिद्धिं च मूर्तिमत्येषा साधयिष्यति चिन्तिताम्