नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय
नमो भवायास्तु भवोद्भवाय नमो ऽस्तु ते ध्वस्तमनोभवाय नमो ऽस्तु ते गूढमहाव्रताय नमो ऽस्तु मायागहनाश्रयाय
नमो ऽस्तु शर्वाय नमः शिवाय नमो ऽस्तु सिद्धाय पुरातनाय नमो ऽस्तु कालाय नमः कलाय नमो ऽस्तु ते ज्ञानवरप्रदाय
नमो ऽस्तु ते कालकलातिगाय नमो निसर्गामलभूषणाय नमो ऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमो ऽगुणाय
नमो ऽस्तु ते भीमगणानुगाय नमो ऽस्तु नानाभुवनादिकर्त्रे नमो ऽस्तु नानाजगतां विधात्रे नमो ऽस्तु ते चित्रफलप्रयोक्त्रे
सर्वावसाने ह्यविनाशनेत्रे नमो ऽस्तु चित्राध्वरभागभोक्त्रे नमो ऽस्तु भक्ताभिमतप्रदात्रे नमः सदा ते भवसङ्गहर्त्रे
अनन्तरूपाय सदैव तुभ्यम् असह्यकोपाय नमो ऽस्तु तुभ्यम् शशाङ्कचिह्नाय सदैव तुभ्यम् अमेयमानाय नमः स्तुताय
वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय नमो ऽस्तु भक्त्याभिमतप्रदाय नमो ऽस्तु सर्वार्तिहराय तुभ्यम्
चराचराचारविचारवर्यम् आचार्यम् उत्प्रेक्षितभूतसर्गम् त्वामिन्दुमौलिं शरणं प्रपन्ना प्रियाप्रमेयं महतां महेशम्
प्रयच्छ मे कामयशःसमृद्धिं पुनः प्रभो जीवतु कामदेवः प्रियं विना त्वां प्रियजीवितेषु त्वत्तो ऽपरः को भुवनेष्विहास्ति
प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीतपर्यायपरापरार्थः त्वमेवमेको भुवनस्य नाथो दयालुरुन्मूलितभक्तभीतिः
इत्थं स्तुतः शंकर ईड्य ईशो वृषाकपिर्मन्मथकान्तया तु तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य
भवितेति च कामो ऽयं कालात्कान्तो ऽचिरादपि अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति
इत्युक्ता शिरसावन्द्य गिरिशं कामवल्लभा जगामोपवनं रम्यं रतिस्तु हिमभूभृतः
रुरोद चापि बहुशो दीना रम्ये स्थले तु सा मरणव्यवसायात्तु निवृत्ता सा हराज्ञया
अथ नारदवाक्येन चोदितो हिमभूधरः कृताभरणसंस्कारां कृतकौतुकमङ्गलाम्
स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकाम्बराम् शराभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः
जगाम शुभयोगेन तदा सम्पूर्णमानसः सकाननान्युपाक्रम्य वनान्युपवनानि च
ददर्श रुदतीं नारीम् अप्रतर्क्यमहौजसम् रूपेणासदृशीं लोके रम्येषु वनसानुषु
कौतुकेन परामृश्य तां दृष्ट्वा रुदतीं गिरिः उपसर्प्य ततस्तस्या निकटे सो ऽभ्यपृच्छत
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि नैतदल्पमहं मन्ये कारणं लोकसुन्दरि
सा तस्य वचनं श्रुत्वा उवाच मधुना सह रुदती शोकजननं श्वसती दैन्यवर्धनम्
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत गिरावस्मिन्महाभाग गिरिशस्तपसि स्थितः
तेन प्रत्यूहरुष्टेन विस्फार्यालोक्य लोचनम् दग्धो ऽसौ झषकेतुस्तु मम कान्तो ऽतिवल्लभः
अहं तु शरणं याता तं देवं भयविह्वला स्तुतवत्यथ संस्तुत्या ततो मां गिरिशो ऽब्रवीत्
तुष्टो ऽहं कामदयिते कामो ऽयं ते भविष्यति त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः
प्रतीक्षन्ती च तद्वाक्यम् आशावेशादिभिर्ह्यहम् शरीरं परिरक्षिष्ये कंचित्कालं महाद्युते
इत्युक्तस्तु तदा रत्या शैलः संभ्रमभीषितः पाणावादाय हि सुतां गन्तुमैच्छत्स्वकं पुरम्
भाविनो ऽवश्यभावित्वाद् भवित्री भूतभाविनी लज्जमाना सखिमुखैर् उवाच पितरं गिरिम्
दुर्भाग्येण शरीरेण किं ममानेन कारणम् कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत्