वीरकं लोकवीरेशम् ईशानसदृशद्युतिम् यक्षकुङ्कुमकिञ्जल्कपुञ्जपिङ्गजटासटम्
वेत्रपाणिनम् अव्यग्रम् उग्रभोगीन्द्रभूषणम् ततो निमीलितोन्निद्रपद्मपत्राभलोचनम्
प्रेक्षमाणमृजुस्थानं नासिकाग्रं सुलोचनैः श्रवस्तरससिंहेन्द्रचर्मलम्बोत्तरीयकम्
श्रवणाहिफलन्मुक्तनिःश्वासानलपिङ्गलम् प्रेङ्खत्कपालपर्यन्ततुम्बिलम्बिजटाचयम्
कृतवासुकिपर्यङ्कनाभिमूलनिवेशितम् ब्रह्माञ्जलिस्थपुच्छाग्रनिबद्धोरगभूषणम्
ददर्श शंकरं कामः क्रमप्राप्तान्तिकं शनैः ततो भ्रमरझङ्कारमालम्बिद्रुमसानुकम्
प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम्
सस्मार दक्षदुहितारं दयितां रक्तमानसः ततः सा तस्य शनकैस् तिरोभूयातिनिर्मला
समाधिभावना तस्थौ लक्ष्यप्रत्यक्षरूपिणी ततस्तन्मयतां यातः प्रत्यूहापिहिताशयः
वशित्वेन बुबोधेशो विकृतिं मदनात्मिकाम् ईषत्कोपसमाविष्टो धैर्यमालम्ब्य धूर्जटिः
निरासे मदनस्थित्या योगमायासमाव्रतः स तया माययाविष्टो जज्वाल मदनस्ततः
इच्छाशरीरो दुर्जेयो रोषदोषमहाश्रयः हृदयान्निर्गतः सो ऽथ वासनाव्यसनात्मकः
बहिःस्थलं समालम्ब्य ह्य् उपतस्थौ झषध्वजः अनुयातो ऽथ हृद्येन मित्रेण मधुना सह
सहकारतरौ दृष्ट्वा मृदुमारुतनिर्धुतम् स्तबकं मदनो रम्यं हरवक्षसि सत्वरम्
मुमोच मोहनं नाम मार्गणं मकरध्वजः शिवस्य हृदये शुद्धे नाशशाली महाशरः
पपात परुषप्रांशुः पुष्पबाणो विमोहनः ततः करणसंदेहो विद्धस्तु हृदये भवः
बभूव भूधरौपम्यधैर्यो ऽपि मदनोन्मुखः ततः प्रभुत्वाद्भावानां नावेशं समपद्यत
बाह्यं बहु समासाद्य प्रत्यूहप्रसवात्मकम् ततः कोपानलोद्भूतघोरहुङ्कारभीषणे
बभूव वदने नेत्रं तृतीयमनलाकुलम् रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम्
तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम्
गमितो भस्मसात्तूर्णं कन्दर्पः कामिदर्पकः स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवो ऽनलः
व्यजृम्भत जगद्दग्धुं ज्वालाहुङ्कारघस्मरः ततो भवो जगद्धेतोर् व्यभवज्जातवेदसम्
सहकारे मधौ चन्द्रे सुमनःसु परेष्वपि भृङ्गेषु कोकिलास्येषु विभागेन स्मरानलम्
स बाह्यान्तरविद्धेन हरेण स्मरमार्गणः रागस्नेहसमिद्धान्तर्धावंस्तीव्रहुताशनः
विभक्तलोकसंक्षोभकरो दुर्वारजृम्भितः सम्प्राप्य स्नेहसंपृक्तं कामिनां हृदयं किल
ज्वलत्यहर्निशं भीमो दुश्चिकित्स्यमुखात्मकः विलोक्य हरहुङ्कारज्वालाभस्मकृतं स्मरम्
विललाप रतिः क्रूरं बन्धुना मधुना सह ततो विलप्य बहुशो मधुना परिसान्त्विता
जगाम शरणं देवम् इन्दुमौलिं त्रिलोचनम् भृङ्गानुयातां संगृह्य पुष्पितां सहकारजाम्
लतां पवित्रकस्थाने पाणौ परभृतां सखीम् निर्बध्य तु जटाजूटं कुटिलैर् अलकै रतिः
उद्ध्वल्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना जानुभ्यामवनीं गत्वा प्रोवाचेन्दुविभूषणम्