स तु तत्राकरोच्चिन्तां कार्यस्योपायपूर्विकाम् महार्था ये हि निष्कम्पा मनस्तेषां सुदुर्जयम्
तदादावेव संक्षोभ्य नियतं सुजयो भवेत् संसिद्धिं प्राप्नुयुश्चैव पूर्वं संशोध्य मानसम्
कथं च विविधैर्भावैर् द्वेषानुगमनं विना क्रोधः क्रूरतरासङ्गाद् भीषणेर्ष्यां महासखीम्
चापल्यमूर्ध्नि विध्वस्तधैर्याधारां महाबलाम् तामस्य विनियोक्ष्यामि मनसो विकृतिं पराम्
पिधाय धैर्यद्वाराणि संतोषमपकृष्य च अवगन्तुं हि मां तत्र न कश्चिदतिपण्डितः
विकल्पमात्रावस्थाने वैरूप्यं मनसो भवेत् पश्चान्मूलक्रियारम्भगम्भीरावर्तदुस्तरः
हरिष्यामि हरस्याहं तपस्तस्य स्थिरात्मनः इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः
चिन्तयित्वेति मदनो भूतभर्तुस्तदाश्रमम् जगाम जगतीसारं सरलद्रुमवेदिकम्
शान्तसत्त्वसमाकीर्णम् अचलप्राणिसंकुलम् नानापुष्पलताजालं गगनस्थगणेश्वरम्
निर्व्यग्रवृषभाध्युष्टनीलशाद्वलसानुकम् तत्रापश्यत्त्रिनेत्रस्य रम्यं कंचिद्द्वितीयकम्
वीरकं लोकवीरेशम् ईशानसदृशद्युतिम् यक्षकुङ्कुमकिञ्जल्कपुञ्जपिङ्गजटासटम्
वेत्रपाणिनम् अव्यग्रम् उग्रभोगीन्द्रभूषणम् ततो निमीलितोन्निद्रपद्मपत्राभलोचनम्
प्रेक्षमाणमृजुस्थानं नासिकाग्रं सुलोचनैः श्रवस्तरससिंहेन्द्रचर्मलम्बोत्तरीयकम्
श्रवणाहिफलन्मुक्तनिःश्वासानलपिङ्गलम् प्रेङ्खत्कपालपर्यन्ततुम्बिलम्बिजटाचयम्
कृतवासुकिपर्यङ्कनाभिमूलनिवेशितम् ब्रह्माञ्जलिस्थपुच्छाग्रनिबद्धोरगभूषणम्
ददर्श शंकरं कामः क्रमप्राप्तान्तिकं शनैः ततो भ्रमरझङ्कारमालम्बिद्रुमसानुकम्
प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम्
सस्मार दक्षदुहितारं दयितां रक्तमानसः ततः सा तस्य शनकैस् तिरोभूयातिनिर्मला
समाधिभावना तस्थौ लक्ष्यप्रत्यक्षरूपिणी ततस्तन्मयतां यातः प्रत्यूहापिहिताशयः
वशित्वेन बुबोधेशो विकृतिं मदनात्मिकाम् ईषत्कोपसमाविष्टो धैर्यमालम्ब्य धूर्जटिः
निरासे मदनस्थित्या योगमायासमाव्रतः स तया माययाविष्टो जज्वाल मदनस्ततः
इच्छाशरीरो दुर्जेयो रोषदोषमहाश्रयः हृदयान्निर्गतः सो ऽथ वासनाव्यसनात्मकः
बहिःस्थलं समालम्ब्य ह्य् उपतस्थौ झषध्वजः अनुयातो ऽथ हृद्येन मित्रेण मधुना सह
सहकारतरौ दृष्ट्वा मृदुमारुतनिर्धुतम् स्तबकं मदनो रम्यं हरवक्षसि सत्वरम्
मुमोच मोहनं नाम मार्गणं मकरध्वजः शिवस्य हृदये शुद्धे नाशशाली महाशरः
पपात परुषप्रांशुः पुष्पबाणो विमोहनः ततः करणसंदेहो विद्धस्तु हृदये भवः
बभूव भूधरौपम्यधैर्यो ऽपि मदनोन्मुखः ततः प्रभुत्वाद्भावानां नावेशं समपद्यत
बाह्यं बहु समासाद्य प्रत्यूहप्रसवात्मकम् ततः कोपानलोद्भूतघोरहुङ्कारभीषणे
बभूव वदने नेत्रं तृतीयमनलाकुलम् रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम्
तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम्