वैशाख्यामुपरागेषु तथोत्सवमहालये तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च
विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता विप्रान्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत्
शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान् द्वौ दैवे त्रींस्तथा पित्र्य एकैकमुभयत्र वा
भोजयेत्सुसमृद्धो ऽपि न प्रसज्जते विस्तरे विश्वान्देवान्यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम्
पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रकम् शं नो देवीत्य् अपः कुर्याद् यवो ऽसीति यवानपि
गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रति न्यसेत् विश्वे देवास इत्याभ्याम् आवाह्य विकिरेद्यवान्
गन्धपुष्पैर् अलंकृत्य या दिव्येत्यर्घ्यमुत्सृजेत् अभ्यर्च्य ताभ्यामुत्सृष्टं पितृकार्यं समारभेत्
दर्भासनं तु दत्त्वादौ त्रीणि पात्राणि पूरयेत् खपवित्राणि कृत्वादौ शं नो देवीत्य् अपः क्षिपेत्
तिलो ऽसीति तिलान्कुर्याद् गन्धपुष्पादिकं पुनः पात्रं वनस्पतिमयं तथा पर्णमयं पुनः
जलजं वाथ कुर्वीत तथा सागरसम्भवम् सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते
रजतस्य कथा वापि दर्शनं दानमेव वा राजतैर् भाजनैरेषाम् अथवा रजतान्वितैः
वार्यपि श्रद्धया दत्तम् अक्षयायोपकल्पते तथार्घ्यपिण्डभोज्यादौ पितॄणां राजतं मतम्
शिवनेत्रोद्भवं यस्मात् तस्मात्तत्पितृवल्लभम् अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत्
एवं पात्राणि संकल्प्य यथालाभं विमत्सरः या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत्
पितॄन् आवाहयिष्यामि कुर्वित्युक्तस्तु तैः पुनः उशन्तस्त्वा तथायन्तु ऋग्भ्याम् आवाहयेत्पितॄन्
या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गन्धादिकांस्ततः हस्तात्तदुदकं पूर्वं दत्त्वा संस्रवमादितः
पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् पितृभ्यः स्थानमसीति निधाय परिषेचयेत्
तत्रापि पूर्ववत्कुर्याद् अग्निकार्यं विमत्सरः उभाभ्यामपि हस्ताभ्याम् आहृत्य परिवेषयेत्
प्रशान्तचित्तः सततं दर्भपाणिरशेषतः गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः
अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् मासं प्रीणाति वै सर्वान् पितॄनित्याह केशवः
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै
षण्मासं छागमांसेन तृप्यन्ति पितरस्तथा सप्त पार्षतमांसेन तथाष्टाव् एणजेन तु
दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः शशकूर्मजमांसेन मासानेकादशैव तु
संवत्सरं तु गव्येन पयसा पायसेन च रौरवेण च तृप्यन्ति मासान्पञ्चदशैव तु
वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी कालशाकेन चानन्ता खड्गमांसेन चैव हि
यत्किंचिन्मधुसम्मिश्रं गोक्षीरं घृतपायसम् दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः
स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च ब्रह्मविष्ण्वर्करुद्राणां सूक्तानि विविधानि च
इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः बृहद्रथंतरं तद्वज् ज्येष्ठसाम सरौहिणम्
तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च मण्डलं ब्राह्मणं तद्वत् प्रीतिकारि तु यत्पुनः
विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत् भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप