उत्तानो वरदः पाणिर् एष देव्याः सदैव तु सुरासुरमुनिव्रातवरदेयं भविष्यति
यथा प्रोक्तं तदा पादौ स्वच्छायाव्यभिचारिणौ अस्याः शृणु ममात्रापि वाग्युक्तिं शैलसत्तम
चरणौ पद्मसंकाशाव् अस्याः स्वच्छनखोज्ज्वलौ सुरासुराणां नमतां किरीटमणिकान्तिभिः
विचित्रवर्णैर्भासन्तौ स्वच्छायाप्रतिबिम्बितौ भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर
जननी लोकधर्मस्य सम्भूता भूतभावनी शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः
तद्यथा शीघ्रमेवैषां योगं यायात्पिनाकिना तथा विधेयं विधिवत् त्वया शैलेन्द्रसत्तम अत्यन्तं हि महत्कार्यं देवानां हिमभूधर
एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि आत्मानं स पुनर्जातं मेने मेनापतिस्तदा
नमस्कृत्य वृषाङ्काय तदा देवाय धीमते उवाच सो ऽपि संहृष्टो नारदं तु हिमाचलः
दुस्तरान्नरकाद्घोराद् उद्धृतो ऽस्मि त्वया मुने पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः
हिमाचलो ऽस्मि विख्यातस् त्वया मुनिवराधुना हिमाचले ऽचलगुणां प्रापितो ऽस्मि समुन्नतिम्
आनन्ददिवसाहारि हृदयं मे ऽधुना मुने नाध्यवस्यति कृत्यानां प्रविभागविचारणम् यदि वाचामधीशः स्यां त्वद्गुणानां विचारणे
भवद्विधानां नियतम् अमोघं दर्शनं मुने तवास्मान्प्रति चापल्यं व्यक्तं मम महामुने
भवद्भिरेव कृत्यो ऽहं निवासायात्मरूपिणाम् मुनीनां देवतानां च स्वयंकर्तापि कल्मषम्
तथापि वस्तुन्येकस्मिन्न् आज्ञा मे सम्प्रदीयताम् इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरे
तथा च नारदो वाक्यं कृतं सर्वमिति प्रभो सुरकार्ये य एवार्थस् तवापि सुमहत्तरः
इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं प्रति स गत्वा शक्रभवनम् अमरेशं ददर्श ह
ततो ऽभिरूपे स मुनिर् उपविष्टो महासने पृष्टः शक्रेण प्रोवाच हिमजासंश्रयां कथाम्
समूह्य यत्तु कर्तव्यं तन्मया कृतमेव हि किं तु पञ्चशरस्यैव समयो ऽयमुपस्थितः
इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना चूताङ्कुरास्त्रं सस्मार भगवान्पाकशासनः
संस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता उपतस्थे रतियुतः सविलासो झषध्वजः प्रादुर्भूतं तु तं दृष्ट्वा शक्रः प्रोवाच सादरम्
उपदेशेन बहुना किं त्वां प्रति वदे प्रियम् मनोभवो ऽसि तेन त्वं वेत्सि भूतमनोगतम्
तद्यथार्थकमेव त्वं कुरु नाकसदां प्रियम् शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव संयुतो मधुना चैव ऋतुराजेन दुर्जय
इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये प्रोवाच पञ्चबाणो ऽथ वाक्यं भीतः शतक्रतुम्
अनया देवसामग्र्या मुनिदानवभीमया दुःसाध्यः शंकरो देवः किं न वेत्सि जगत्प्रभो
तस्य देवस्य वेत्थ त्वं कारणं तु यदव्ययम् प्रायः प्रसादः कोपो ऽपि सर्वो हि महतां महान्
सर्वोपभोगसारा हि सुन्दर्यः स्वर्गसंभवाः अध्याश्रितं च यत्सौख्यं भवता नष्टचेष्टितम्
प्रमादादथ विभ्रश्येद् ईशं प्रति विचिन्त्यताम् प्रागेव चेह दृश्यन्ते भूतानां कार्यसंभवाः
विशेषं काङ्क्षतां शक्र सामान्याद्भ्रंशनं फलम् श्रुत्वैतद्वचनं शक्रस् तमुवाचामरैर्युतः
वयं प्रमाणास्ते ह्यत्र रतिकान्त न संशयः संदेशेन विना शक्तिर् अपकारस्य नेष्यते कस्यचिच् च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः
इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः रतियुक्तो जगामाशु प्रस्थं तु हिमभूभृतः