ब्रह्मविष्ण्विन्द्रमुनयो जन्ममृत्युजरार्दिताः तस्यैते परमेशस्य सर्वे क्रीडनका गिरे
आस्ते ब्रह्मा तदिच्छातः सम्भूतो भुवनप्रभुः विष्णुर्युगे युगे जातो नानाजातिर्महातनुः
मन्यसे मायया जातं विष्णुं चापि युगे युगे आत्मनो न विनाशो ऽस्ति स्थावरान्ते ऽपि भूधर
संसारे जायमानस्य भ्रियमाणस्य देहिनः नश्यते देह एवात्र नात्मनो नाश उच्यते
ब्रह्मादिस्थावरान्तो ऽयं संसारो यः प्रकीर्तितः स जन्ममृत्युदुःखार्तो ह्य् अवशः परिवर्तते
महादेवो ऽचलः स्थाणुर् न जातो जनको ऽजरः भविष्यति पतिः सो ऽस्या जगन्नाथो निरामयः
यदुक्तं च मया देवी लक्षणैर्वर्जिता तव शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्
लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः सर्वायुर्धनसौभाग्यपरिमाणप्रकाशकः
अनन्तस्याप्रमेयस्य सौभाग्यस्यास्य भूधर नैवाङ्को लक्षणाकारः शरीरे संविधीयते
अतो ऽस्या लक्षणं गात्रे शैल नास्ति महामते यथाहमुक्तवानस्या ह्य् उत्तानकरतां सदा
उत्तानो वरदः पाणिर् एष देव्याः सदैव तु सुरासुरमुनिव्रातवरदेयं भविष्यति
यथा प्रोक्तं तदा पादौ स्वच्छायाव्यभिचारिणौ अस्याः शृणु ममात्रापि वाग्युक्तिं शैलसत्तम
चरणौ पद्मसंकाशाव् अस्याः स्वच्छनखोज्ज्वलौ सुरासुराणां नमतां किरीटमणिकान्तिभिः
विचित्रवर्णैर्भासन्तौ स्वच्छायाप्रतिबिम्बितौ भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर
जननी लोकधर्मस्य सम्भूता भूतभावनी शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः
तद्यथा शीघ्रमेवैषां योगं यायात्पिनाकिना तथा विधेयं विधिवत् त्वया शैलेन्द्रसत्तम अत्यन्तं हि महत्कार्यं देवानां हिमभूधर
एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि आत्मानं स पुनर्जातं मेने मेनापतिस्तदा
नमस्कृत्य वृषाङ्काय तदा देवाय धीमते उवाच सो ऽपि संहृष्टो नारदं तु हिमाचलः
दुस्तरान्नरकाद्घोराद् उद्धृतो ऽस्मि त्वया मुने पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः
हिमाचलो ऽस्मि विख्यातस् त्वया मुनिवराधुना हिमाचले ऽचलगुणां प्रापितो ऽस्मि समुन्नतिम्
आनन्ददिवसाहारि हृदयं मे ऽधुना मुने नाध्यवस्यति कृत्यानां प्रविभागविचारणम् यदि वाचामधीशः स्यां त्वद्गुणानां विचारणे
भवद्विधानां नियतम् अमोघं दर्शनं मुने तवास्मान्प्रति चापल्यं व्यक्तं मम महामुने
भवद्भिरेव कृत्यो ऽहं निवासायात्मरूपिणाम् मुनीनां देवतानां च स्वयंकर्तापि कल्मषम्
तथापि वस्तुन्येकस्मिन्न् आज्ञा मे सम्प्रदीयताम् इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरे
तथा च नारदो वाक्यं कृतं सर्वमिति प्रभो सुरकार्ये य एवार्थस् तवापि सुमहत्तरः
इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं प्रति स गत्वा शक्रभवनम् अमरेशं ददर्श ह
ततो ऽभिरूपे स मुनिर् उपविष्टो महासने पृष्टः शक्रेण प्रोवाच हिमजासंश्रयां कथाम्
समूह्य यत्तु कर्तव्यं तन्मया कृतमेव हि किं तु पञ्चशरस्यैव समयो ऽयमुपस्थितः
इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना चूताङ्कुरास्त्रं सस्मार भगवान्पाकशासनः
संस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता उपतस्थे रतियुतः सविलासो झषध्वजः प्रादुर्भूतं तु तं दृष्ट्वा शक्रः प्रोवाच सादरम्