मनुष्यदेवजातीनां शुभाशुभनिवेदकम् लक्षणं हस्तपादादौ विहितैर्लक्षणैः किल
सेयम् उत्तानहस्तेति त्वयोक्ता मुनिपुंगव उत्तानहस्तता प्रोक्ता याचतामेव नित्यदा
शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम् स्वछाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ
तत्रापि श्रेयसां ह्याशा मुने न प्रतिभाति नः शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः
सौभाग्यधनपुत्रायुः पतिलाभानुशंसनम् तैश्च सर्वैर्विहीनेयं त्वमात्थ मुनिपुंगव
त्वं मे सर्वं विजानासि सत्यवागसि चाप्यतः मुह्यामि मुनिशार्दूल हृदयं दीर्यतीव मे
इत्युक्त्वा विरतः शैलो महादुःखविचारणात् श्रुत्वैतदखिलं तस्माच् छैलराजमुखाम्बुजात् स्मितपूर्वमुवाचेदं नारदो देवचोदितः
हर्षस्थाने ऽपि महति त्वया दुःखं निरूप्यते अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे
इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम् समाहितो महाशैल मयोक्तस्य विचारणे
न जातो ऽस्याः पतिर्देव्या यन्मयोक्तं हिमाचल न स जातो महादेवो भूतभव्यभवोद्भवः शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः
ब्रह्मविष्ण्विन्द्रमुनयो जन्ममृत्युजरार्दिताः तस्यैते परमेशस्य सर्वे क्रीडनका गिरे
आस्ते ब्रह्मा तदिच्छातः सम्भूतो भुवनप्रभुः विष्णुर्युगे युगे जातो नानाजातिर्महातनुः
मन्यसे मायया जातं विष्णुं चापि युगे युगे आत्मनो न विनाशो ऽस्ति स्थावरान्ते ऽपि भूधर
संसारे जायमानस्य भ्रियमाणस्य देहिनः नश्यते देह एवात्र नात्मनो नाश उच्यते
ब्रह्मादिस्थावरान्तो ऽयं संसारो यः प्रकीर्तितः स जन्ममृत्युदुःखार्तो ह्य् अवशः परिवर्तते
महादेवो ऽचलः स्थाणुर् न जातो जनको ऽजरः भविष्यति पतिः सो ऽस्या जगन्नाथो निरामयः
यदुक्तं च मया देवी लक्षणैर्वर्जिता तव शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्
लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः सर्वायुर्धनसौभाग्यपरिमाणप्रकाशकः
अनन्तस्याप्रमेयस्य सौभाग्यस्यास्य भूधर नैवाङ्को लक्षणाकारः शरीरे संविधीयते
अतो ऽस्या लक्षणं गात्रे शैल नास्ति महामते यथाहमुक्तवानस्या ह्य् उत्तानकरतां सदा
उत्तानो वरदः पाणिर् एष देव्याः सदैव तु सुरासुरमुनिव्रातवरदेयं भविष्यति
यथा प्रोक्तं तदा पादौ स्वच्छायाव्यभिचारिणौ अस्याः शृणु ममात्रापि वाग्युक्तिं शैलसत्तम
चरणौ पद्मसंकाशाव् अस्याः स्वच्छनखोज्ज्वलौ सुरासुराणां नमतां किरीटमणिकान्तिभिः
विचित्रवर्णैर्भासन्तौ स्वच्छायाप्रतिबिम्बितौ भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर
जननी लोकधर्मस्य सम्भूता भूतभावनी शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः
तद्यथा शीघ्रमेवैषां योगं यायात्पिनाकिना तथा विधेयं विधिवत् त्वया शैलेन्द्रसत्तम अत्यन्तं हि महत्कार्यं देवानां हिमभूधर
एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि आत्मानं स पुनर्जातं मेने मेनापतिस्तदा
नमस्कृत्य वृषाङ्काय तदा देवाय धीमते उवाच सो ऽपि संहृष्टो नारदं तु हिमाचलः
दुस्तरान्नरकाद्घोराद् उद्धृतो ऽस्मि त्वया मुने पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः
हिमाचलो ऽस्मि विख्यातस् त्वया मुनिवराधुना हिमाचले ऽचलगुणां प्रापितो ऽस्मि समुन्नतिम्