कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम् यो जायते हि यद्बीजो जनितुः स ह्यसार्थकः
जनिता चापि जातस्य न कश्चिदिति यत्स्फुटम् स्वकर्मणैव जायन्ते विविधा भूतजातयः
अण्डजो ह्यण्डजाज्जातः पुनर्जायेत मानवः मानुषाच्च सरीसृप्यां मनुष्यत्वेन जायते
तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु अपुत्रजन्मिनः शेषाः प्राणिनः समवस्थिताः
मनुजास्तत्र जायन्ते यतो न गृहधर्मिणः क्रमेणाश्रमसंप्राप्तिर् ब्रह्मचारिव्रतादनु
तस्य कर्तुर्नियोगेन संसारो येन वर्धितः संसारस्य कुतो वृद्धिः सर्वे स्युर्यदतिग्रहाः
अतः कर्त्रा तु शास्त्रेषु सुतलाभः प्रशंसितः प्राणिनां मोहनार्थाय नरकत्राणसंश्रयात्
स्त्रिया विरहिता सृष्टिर् जन्तूनां नोपपद्यते स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभाषिणी शास्त्रालोचनसामर्थ्यम् उज्झितं तासु वेधसा
शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलम् दशपुत्रसमा कन्या या न स्याच्छीलवर्जिता
वाक्यमेतत्फलभ्रष्टं पुंसि ग्लानिकरं परम् कन्या हि कृपणा शोच्या पितुर्दुःखविवर्धिनी
यापि स्यात्पूर्णसर्वाढ्या पतिपुत्रधनादिभिः किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः
त्वं चोक्तवान्सुताया मे शरीरे दोषसंग्रहम् अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद
अयुक्तमथ वक्तव्यम् अप्राप्यमपि सांप्रतम् अनुग्रहेण मे छिन्द्धि दुःखं कन्याश्रयं मुने
परिच्छिन्ने ऽप्यसंदिग्धे मनः परिभवाश्रयम् तृष्णा मुष्णाति निष्णाता फललोभाश्रयाशुभा
स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम् इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम्
दुर्लभः सत्पतिः स्त्रीणां विगुणो ऽपि पतिः किल न प्राप्यते विना पुण्यैः पतिर्नार्या कदाचन
यतो निःसाधनो धर्मः परिमाणोज्झिता रतिः धनं जीवितपर्याप्तं पत्यौ नार्याः प्रतिष्ठितम्
निर्धनो दुर्भगो मूर्खः सर्वलक्षणवर्जितः दैवतं परमं नार्याः पतिरुक्तः सदैव हि
त्वया चोक्तं हि देवर्षे न जातो ऽस्याः पतिः किल एतद्दौर्भाग्यमतुलम् असंख्यं गुरु दुःसहम्
चराचरे भूतसर्गे यदद्यापि च नो मुने न स जात इति ब्रूषे तेन मे व्याकुलं मनः
मनुष्यदेवजातीनां शुभाशुभनिवेदकम् लक्षणं हस्तपादादौ विहितैर्लक्षणैः किल
सेयम् उत्तानहस्तेति त्वयोक्ता मुनिपुंगव उत्तानहस्तता प्रोक्ता याचतामेव नित्यदा
शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम् स्वछाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ
तत्रापि श्रेयसां ह्याशा मुने न प्रतिभाति नः शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः
सौभाग्यधनपुत्रायुः पतिलाभानुशंसनम् तैश्च सर्वैर्विहीनेयं त्वमात्थ मुनिपुंगव
त्वं मे सर्वं विजानासि सत्यवागसि चाप्यतः मुह्यामि मुनिशार्दूल हृदयं दीर्यतीव मे
इत्युक्त्वा विरतः शैलो महादुःखविचारणात् श्रुत्वैतदखिलं तस्माच् छैलराजमुखाम्बुजात् स्मितपूर्वमुवाचेदं नारदो देवचोदितः
हर्षस्थाने ऽपि महति त्वया दुःखं निरूप्यते अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे
इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम् समाहितो महाशैल मयोक्तस्य विचारणे
न जातो ऽस्याः पतिर्देव्या यन्मयोक्तं हिमाचल न स जातो महादेवो भूतभव्यभवोद्भवः शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः