अवगम्यार्थमखिलं तत आमन्त्र्य नारदः शक्रं जगाम भगवान् हिमशैलनिवेशनम्
तत्र द्वारे स विप्रेन्द्रश् चित्रवेत्रलताकुले वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः
सह प्रविश्य भवनं भुवो भूषणतां गतम् निवेदिते स्वयं हैमे हिमशैले न विस्तृते
महासने मुनिवरो निषसादातुलद्युतिः यथार्हं चार्घ्यपाद्यं च शैलस्तस्मै न्यवेदयत्
मुनिस्तु प्रतिजग्राह तमर्घं विधिवत्तदा गृहीतार्घं मुनिवरम् अपृच्छच्छ्लक्ष्णया गिरा
कुशलं तपसः शैलः शनैः फुल्लाननाम्बुजः मुनिरप्यद्रिराजानम् अपृच्छत्कुशलं तदा
अहो ऽवतारिताः सर्वे संनिवेशे महागिरे पृथुत्वं मनसा तुल्यं कन्दराणां तथाचल
गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते प्रसन्नता च तोयस्य मनसो ऽप्यधिका च ते
न लक्षयामः शैलेन्द्र शिष्यते कन्दरोदरात् न च लक्ष्मीस्तथा स्वर्गे कुत्राधिकतया स्थिता
नानातपोभिर्मुनिभिर् ज्वलनार्कसमप्रभैः पावनैः पावितो नित्यं त्वत्कन्दरसमाश्रितैः
अवमत्य विमानानि स्वर्गवासविरागिणः पितुर्गृह इवासन्ना देवगन्धर्वकिंनराः
अहो धन्यो ऽसि शैलेन्द्र यस्य ते कन्दरं हरः अध्यास्ते लोकनाथो ऽपि समाधानपरायणः
इत्युक्तवति देवर्षौ नारदे सादरं गिरा हिमशैलस्य महिषी मेना मुनिदिदृक्षया
अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका लज्जाप्रणयनम्राङ्गी प्रविवेश निवेशनम्
तत्र स्थितो मुनिवरः शैलेन सहितो वशी दृष्ट्वा तु तेजसो राशिं मुनिं शैलप्रिया तदा
ववन्दे गूढवदना पाणिपद्मकृताञ्जलिः तां विलोक्य महाभागो महर्षिर् अमितद्युतिः
आशीर्भिर् अमृतोद्गाररूपाभिस्तां व्यवर्धयत् ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका
उदैक्षन्नारदं देवी मुनिमद्भुतरूपिणम् एहि वत्सेति चाप्युक्ता ऋषिणा स्निग्धया गिरा
कण्ठे गृहीत्वा पितरम् उत्सङ्गे समुपाविशत् उवाच माता तां देवीम् अभिवन्दय पुत्रिके
भगवन्तं ततो धन्यं पतिमाप्स्यसि संमतम् इत्युक्ता तु ततो मात्रा वस्त्रान्तपिहितानना
किंचित्कम्पितमूर्धा तु वाक्यं नोवाच किंचन ततः पुनरुवाचेदं वाक्यं माता सुतां तदा
वत्से वन्दय देवर्षिं ततो दास्यामि ते शुभम् रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया
इत्युक्ता तु ततो वेगाद् उद्धृत्य चरणौ तदा ववन्दे मूर्ध्नि संधाय करपङ्कजकुड्मलम्
कृते तु वन्दने तस्या माता सखीमुखेन तु चोदयामास शनकैस् तस्याः सौभाग्यशंसिनाम्
शरीरलक्षणानां तु विज्ञानाय तु कौतुकात् स्त्रीस्वभावाद्यद्दुहितुश् चिन्तां हृदि समुद्वहन्
ज्ञात्वा तदिङ्गितं शैलो महिष्या हृदयेन तु अनुद्गीर्णो ऽक्षतिर्मेने रम्यमेतदुपस्थितम्
चोदितः शैलमहिषीसख्या मुनिवरस्तदा स्मिताननो महाभागो वाक्यं प्रोवाच नारदः
न जातो ऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः स्वछायया भविष्येयं किमन्यद्बहु भाष्यते
श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो महाबलः नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः
संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः सृष्ट्यां चावश्यभाविन्यां केनाप्यतिशयात्मना