देवगन्धर्वनागेन्द्रशैलशीलावनीगुणैः हिमशैलसुता देवी स्वयंपूर्विकया ततः
क्रमेण वृद्धिमानीता लक्ष्मीवानलसैर्बुधैः क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रयम्
अजयद्भूषयच्चापि निःसाधारैर्नगात्मजा एतस्मिन्नन्तरे शक्रो नारदं देवसंमतम्
देवर्षिमथ सस्मार कार्यसाधनसत्वरम् स्मृतिं शक्रस्य विज्ञाय जातां तु भगवांस्तदा
आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम् तं स दृष्ट्वा सहस्राक्षः समुत्थाय महासनात्
यथार्हेण तु पाद्येन पूजयामास वासवः शक्रप्रणीतां तां पूजां प्रतिगृह्य यथाविधि
नारदः कुशलं देवम् अपृच्छत्पाकशासनम् पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः
कुशलस्याङ्कुरे तावत् सम्भूते भुवनत्रये तत्फलोद्भवसंपत्तौ त्वं भवातन्द्रितो मुने
वेत्सि चैतत्समस्तं त्वं तथापि परिचोदकः निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने
तद्यथा शैलजा देवी योगं यायात्पिनाकिना शीघ्रं तदुद्यमः सर्वैर् अस्मत्पक्षैर्विधीयताम्
अवगम्यार्थमखिलं तत आमन्त्र्य नारदः शक्रं जगाम भगवान् हिमशैलनिवेशनम्
तत्र द्वारे स विप्रेन्द्रश् चित्रवेत्रलताकुले वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः
सह प्रविश्य भवनं भुवो भूषणतां गतम् निवेदिते स्वयं हैमे हिमशैले न विस्तृते
महासने मुनिवरो निषसादातुलद्युतिः यथार्हं चार्घ्यपाद्यं च शैलस्तस्मै न्यवेदयत्
मुनिस्तु प्रतिजग्राह तमर्घं विधिवत्तदा गृहीतार्घं मुनिवरम् अपृच्छच्छ्लक्ष्णया गिरा
कुशलं तपसः शैलः शनैः फुल्लाननाम्बुजः मुनिरप्यद्रिराजानम् अपृच्छत्कुशलं तदा
अहो ऽवतारिताः सर्वे संनिवेशे महागिरे पृथुत्वं मनसा तुल्यं कन्दराणां तथाचल
गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते प्रसन्नता च तोयस्य मनसो ऽप्यधिका च ते
न लक्षयामः शैलेन्द्र शिष्यते कन्दरोदरात् न च लक्ष्मीस्तथा स्वर्गे कुत्राधिकतया स्थिता
नानातपोभिर्मुनिभिर् ज्वलनार्कसमप्रभैः पावनैः पावितो नित्यं त्वत्कन्दरसमाश्रितैः
अवमत्य विमानानि स्वर्गवासविरागिणः पितुर्गृह इवासन्ना देवगन्धर्वकिंनराः
अहो धन्यो ऽसि शैलेन्द्र यस्य ते कन्दरं हरः अध्यास्ते लोकनाथो ऽपि समाधानपरायणः
इत्युक्तवति देवर्षौ नारदे सादरं गिरा हिमशैलस्य महिषी मेना मुनिदिदृक्षया
अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका लज्जाप्रणयनम्राङ्गी प्रविवेश निवेशनम्
तत्र स्थितो मुनिवरः शैलेन सहितो वशी दृष्ट्वा तु तेजसो राशिं मुनिं शैलप्रिया तदा
ववन्दे गूढवदना पाणिपद्मकृताञ्जलिः तां विलोक्य महाभागो महर्षिर् अमितद्युतिः
आशीर्भिर् अमृतोद्गाररूपाभिस्तां व्यवर्धयत् ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका
उदैक्षन्नारदं देवी मुनिमद्भुतरूपिणम् एहि वत्सेति चाप्युक्ता ऋषिणा स्निग्धया गिरा
कण्ठे गृहीत्वा पितरम् उत्सङ्गे समुपाविशत् उवाच माता तां देवीम् अभिवन्दय पुत्रिके
भगवन्तं ततो धन्यं पतिमाप्स्यसि संमतम् इत्युक्ता तु ततो मात्रा वस्त्रान्तपिहितानना