त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् त्वं च कीर्तिमतां कीर्तिस् त्वं मूर्तिः सर्वदेहिनाम्
रतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृष्टदर्शिनाम् त्वं कान्तिः कृतभूषाणां त्वं शान्तिर्दुःखकर्मणाम्
त्वं भ्रान्तिः सर्वबोधानां त्वं गतिः क्रतुयाजिनाम् जलधीनां महावेला त्वं च लीला विलासिनाम्
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी त्वं कालरात्रिर्निःशेषभुवनावलिनाशिनी
प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी इत्यनेकविधैर्देवि रूपैर्लोके त्वमर्चिता
ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति वापि ये ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः
इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलिः जगाम त्वरिता तूर्णं गृहं हिमगिरेः परम्
तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम् ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्
किंचिच् छ्याममुखोदग्रस्तनभारावनामिताम् महौषधिगणाबद्धमन्त्रराजनिषेविताम्
उद्वहत्कनकोन्नद्धजीवरक्षामहोरगाम् मणिदीपगणज्योतिर् महालोकप्रकाशिते
प्रकीर्णबहुसिद्धार्थे मनोजपरिवारके शुचिन्यंशुकसंछन्नभूशय्यास्तरणोज्ज्वले
धूपामोदमनोरम्ये सर्जगन्धोपयोगिके ततः क्रमेण दिवसे गते दूरं विभावरी
व्यजृम्भत सुखोदर्के ततो मेना महागृहे प्रसुप्तप्रायपुरुषे निद्राभूतोपचारिके
स्फुटालोके शशभृति भ्रान्तिरात्रिविहंगमे रजनीचरभूतानां संघैरावृतचत्वरे
गाढकण्ठग्रहालग्नसुभगेष्टजने ततः किंचिदाकुलतां प्राप्ते मेनानेत्राम्बुजद्वये
आविवेश मुखे रात्रिः सुचिरस्फुटसंगमा जन्मदाया जगन्मातुः क्रमेण जठरान्तरे
आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै अरञ्जयच्छविं देव्या गुहारण्ये विभावरी
ततो जगत्पतिप्राणहेतुर्हिमगिरिप्रिया ब्राह्मे मुहूर्ते सुभगे व्यसूयत गुहारणिम्
तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः
नारकाणामपि तदा सुखं स्वर्गसमं महत् अभवत्क्रूरसत्त्वानां चेतः शान्तं च देहिनाम्
ज्योतिषामपि तेजस्त्वम् अभवत्सुरतोन्नता वनाश्रिताश्चौषधयः स्वादुवन्ति फलानि च
गन्धवन्ति च माल्यानि विमलं च नभो ऽभवत् मारुतश्च सुखस्पर्शो दिशश्च सुमनोहरा
तेन चोद्भूतफलितपरिपाकगुणोज्ज्वलाः अभवत्पृथिवी देवी शालिमालाकुलापि च
तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम् तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम्
विस्मृतानि च शस्त्राणि प्रादुर्भावं प्रपेदिरे प्रभावस्तीर्थमुख्यानां तदा पुण्यतमो ऽभवत्
अन्तरिक्षे सुराश्चासन् विमानेषु सहस्रशः समहेन्द्रहरिब्रह्मवायुवह्निपुरोगमाः
पुष्पवृष्टिं प्रमुमुचुस् तस्मिंस्तु हिमभूधरे जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः
मेरुप्रभृतयश्चापि मूर्तिमन्तो महाबलाः तस्मिन्महोत्सवे प्राप्ते दिव्यप्रभृतपाणयः
सरितः सागराश्चैव समाजग्मुश्च सर्वशः हिमशैलो ऽभवल्लोके तथा सर्वैश्चराचरैः
सेव्यश्चाप्यभिगम्यश्च स श्रेयांश्चाचलोत्तमः अनुभूयोत्सवं देवा जग्मुः स्वानालयान्मुदा