भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती प्रयास्यति तपश्चर्तुं तत्तस्मात्तपसे पुनः
जनयिष्यति यं शर्वा दयितद्युतिमण्डितम् स भविष्यति हन्ता वै सुरारीणामसंशयम्
त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः यावच्च न सती देहसंक्रान्तगुणसंचया
तत्संगमेन तावत्त्वं दैत्यान्हन्तुं न शक्ष्यसे एवं कृते तपस्तप्त्वा सृष्टिसंहारकारिणी
समाप्तनियमा देवी यदा चोमा भविष्यति तदा स्वमेव तद्रूपं शैलजा प्रतिपत्स्यते
तनुस्तवापि सहजा सैकानंशा भविष्यति रूपांशेन तु संयुक्ता त्वमुमायां भविष्यसि
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति भेदैर्बहुविधाकारैः सर्वगा कामसाधिनी
ओंकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः आक्रान्तिरूर्जिताकारा राजभिश्च महाभुजैः
त्वं भूरिति विशां माता शूद्रैः शैवीति पूजिता क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामिति
त्वं महोपायसंदोहा नीतिर्नयविसर्पिणाम् परिच्छित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया
त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् त्वं च कीर्तिमतां कीर्तिस् त्वं मूर्तिः सर्वदेहिनाम्
रतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृष्टदर्शिनाम् त्वं कान्तिः कृतभूषाणां त्वं शान्तिर्दुःखकर्मणाम्
त्वं भ्रान्तिः सर्वबोधानां त्वं गतिः क्रतुयाजिनाम् जलधीनां महावेला त्वं च लीला विलासिनाम्
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी त्वं कालरात्रिर्निःशेषभुवनावलिनाशिनी
प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी इत्यनेकविधैर्देवि रूपैर्लोके त्वमर्चिता
ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति वापि ये ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः
इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलिः जगाम त्वरिता तूर्णं गृहं हिमगिरेः परम्
तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम् ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्
किंचिच् छ्याममुखोदग्रस्तनभारावनामिताम् महौषधिगणाबद्धमन्त्रराजनिषेविताम्
उद्वहत्कनकोन्नद्धजीवरक्षामहोरगाम् मणिदीपगणज्योतिर् महालोकप्रकाशिते
प्रकीर्णबहुसिद्धार्थे मनोजपरिवारके शुचिन्यंशुकसंछन्नभूशय्यास्तरणोज्ज्वले
धूपामोदमनोरम्ये सर्जगन्धोपयोगिके ततः क्रमेण दिवसे गते दूरं विभावरी
व्यजृम्भत सुखोदर्के ततो मेना महागृहे प्रसुप्तप्रायपुरुषे निद्राभूतोपचारिके
स्फुटालोके शशभृति भ्रान्तिरात्रिविहंगमे रजनीचरभूतानां संघैरावृतचत्वरे
गाढकण्ठग्रहालग्नसुभगेष्टजने ततः किंचिदाकुलतां प्राप्ते मेनानेत्राम्बुजद्वये
आविवेश मुखे रात्रिः सुचिरस्फुटसंगमा जन्मदाया जगन्मातुः क्रमेण जठरान्तरे
आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै अरञ्जयच्छविं देव्या गुहारण्ये विभावरी
ततो जगत्पतिप्राणहेतुर्हिमगिरिप्रिया ब्राह्मे मुहूर्ते सुभगे व्यसूयत गुहारणिम्
तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः
नारकाणामपि तदा सुखं स्वर्गसमं महत् अभवत्क्रूरसत्त्वानां चेतः शान्तं च देहिनाम्