सभायाममरा देव निकृष्टे ऽप्युपवेशिताः वेत्रहस्तैर् अजल्पन्तस् ततो ऽपहसितास्तु तैः
महार्थाः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः चाटुयुक्तमथो कर्म ह्य् अमरा बहु भाषत
समयं दैत्यसिंहस्य सशक्रस्य नु संस्थिताः वदतेति च दैत्यस्य प्रेष्यैर्विहसिता बहु
ऋतवो मूर्तिमन्तस्तम् उपासन्ते ह्यहर्निशम् कृतापराधसंत्रासं न त्यजन्ति कदाचन
तन्त्रीत्रयलयोपेतं सिद्धगन्धर्वकिंनरैः सुरागम् उपधा नित्यं गीयते तस्य वेश्मसु
हन्ताकृतोपकरणैर् मित्राणि गुरुलाघवैः शरणागतसंत्यागी त्यक्तसत्यपरिश्रयः
इति निःशेषमथवा निःशेषं वै न शक्यते तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्
इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् सुरानुवाच भगवांस् ततः स्मितमुखाम्बुजः
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान्
मया स वरदानेन छन्दयित्वा निवारितः तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकात्
स च वव्रे वधं दैत्यः शिशुतः सप्तवासरात् स सप्तदिवसो बालः शंकराद्यो भविष्यति
तारकस्य निहन्ता स भास्कराभो भविष्यति सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः
यच्चाहमुक्तवान्यस्या ह्य् उत्तानकरता सदा उत्तानो वरदः पाणिर् एष देव्याः सदैव तु
हिमाचलस्य दुहिता सा तु देवी भविष्यति तस्याः सकाशाद्यः शर्वस् त्व् अरण्यां पावको यथा
जनयिष्यति तं प्राप्य तारको ऽभिभविष्यति मयाप्युपायः स कृतो यथैवं हि भविष्यति
शेषश्चाप्यस्य विभवो विनश्येत्तदनन्तरम् स्तोककालं प्रतीक्षध्वं निर्विशङ्केन चेतसा
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलजन्मना जग्मुस्तं प्रणिपत्येशं यथायोगं दिवौकसः
ततो गतेषु देवेषु ब्रह्मा लोकपितामहः निशां सस्मार भगवान् स्वतनोः पूर्वसंभवाम्
ततो भगवती रात्रिर् उपतस्थे पितामहम् तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्
विभावरि महत्कायं विबुधानामुपस्थितम् तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयम्
तारको नाम दैत्येन्द्रः सुरकेतुरनिर्जितः तस्याभावाय भगवाञ् जनयिष्यति चेश्वरः
सुतं स भविता तस्य तारकस्यान्तकारकः शंकरस्याभवत्पत्नी सती दक्षसुता तु या
सा मृता कुपिता देवी कस्मिंश्चित्कारणान्तरे भविता हिमशैलस्य दुहिता लोकभाविनी
विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयम् तपस्यन्हिमशैलस्य कन्दरे सिद्धसेविते
प्रतीक्षमाणस्तज्जन्म कंचित्कालं निवत्स्यति तयोः सुतप्ततपसोर् भविता यो महाबलः
स भविष्यति दैत्यस्य तारकस्य विनाशकः जातमात्रा तु सा देवी स्वल्पसंज्ञा च भामिनी
विरहोत्कण्ठिता गाढं हरसंगमलालसा तयोः सुतप्ततपसोः संयोगः स्याच्छुभानने
ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत् ततो ऽपि संशयो भूयस् तारकं प्रति दृश्यते
तयोः संयुक्तयोस्तस्मात् सुरतासक्तिकारणे विघ्नस्त्वया विधातव्यो यथा ताभ्यां तथा शृणु
गर्भस्थाने च तन्मातुः स्वेन रूपेण रञ्जय ततो विहाय शर्वस्तां विश्रान्तो नर्मपूर्वकम्