नारी याभर्तृकाकस्मात् तनुस्ते त्यक्तभूषणा न राजते तथा शक्र म्लानवक्त्रशिरोरुहा
हुताशनविमुक्तो ऽपि न धूमेन विराजसे भस्मनेव प्रतिच्छन्नो दग्धदावश्चिरोषितः
यमामयमये नैव शरीरे त्वं विराजसे दण्डस्यालम्बनेनेव ह्य् अकृच्छ्रस्तु पदे पदे
रजनीचरनाथो ऽपि किं भीत इव भाषसे राक्षसेन्द्र क्षताराते त्वमरातिक्षतो यथा
तनुस्ते वरुणोच्छुष्का परीतस्येव वह्निना विमुक्तरुधिरं पाशं फणिभिः प्रविलोकयन्
वायो भवान् विचेतस्कस् त्वं स्निग्धैरिव निर्जितः किं त्वं बिभेषि धनद संन्यस्यैव कुबेरताम्
रुद्रास्त्रिशूलिनः सन्तो वदध्वं बहुशूलताम् भवन्तः केन तत्क्षिप्तं तेजस्तु भवतामपि
अकिंचित्करतां यातः करस्ते न विभासते अलं नीलोत्पलाभेन चक्रेण मधुसूदन
किं त्वयानुदरालीनभुवनप्रविलोकनम् क्रियते स्तिमिताक्षेण भवता विश्वतोमुख
एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्ममूर्तिना वाचां प्रधानभूतत्वान् मारुतं तमचोदयन्
अथ विष्णुमुखैर्देवैः श्वसनः प्रतिबोधितः चतुर्मुखं तदा प्राह चराचरगुरुं विभुम्
त्वमनन्त करोषि जगद्भवतां सचराचरगर्भविभिन्नगुणाम् अमरासुरमेतदशेषमपि त्वयि तुल्यमहो जनको ऽसि यतः
पितुरस्ति तथापि मनोविकृतिः सगुणो विगुणो बलवानबलः भवतो वरलाभनिवृत्तभयः कुलिशाङ्गसुतो दितिजो ऽतिबलः
सचराचरनिर्मथने किमिति कितवस्तु कृतो विहितो भवता किल देव त्वया स्थितये जगतां महदद्भुतचित्रविचिगुणाः
अपि तुष्टिकृतः श्रुतकामफला विहिता द्विजनायक देवगणाः अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम्
अपहृत्य विमानगणं स कृतो दितिजेन महामरुभूमिसमः कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया
सममिङ्गितभावविधिः स गिरिर् गगनेन सदोच्छ्रयतां हि गतः अधिवासविहारविधावुचितो दितिजने पविक्षतशृङ्गतटः
परिलुण्ठितरत्नगुहानिवहो बहुदैत्यसभाश्रयतां गमितः सुरराज स तस्य भयेन गतं व्यदधादशरीर इतो ऽपि वृथा
उपयोग्यतया विवृतं सुचिरं विमलद्युतिपूरितदिग्वदनम् भवतैव विनिर्मितमादियुगे सुरहेतिसमूहम् अनुत्थमिदम्
दितिजस्य शरीरमवाप्य गतं शतधा मतिभेदमिवाल्पमनाः आसारधूलिध्वस्ताङ्गा द्वारस्थाः स्मः कदर्थिनः लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः
सभायाममरा देव निकृष्टे ऽप्युपवेशिताः वेत्रहस्तैर् अजल्पन्तस् ततो ऽपहसितास्तु तैः
महार्थाः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः चाटुयुक्तमथो कर्म ह्य् अमरा बहु भाषत
समयं दैत्यसिंहस्य सशक्रस्य नु संस्थिताः वदतेति च दैत्यस्य प्रेष्यैर्विहसिता बहु
ऋतवो मूर्तिमन्तस्तम् उपासन्ते ह्यहर्निशम् कृतापराधसंत्रासं न त्यजन्ति कदाचन
तन्त्रीत्रयलयोपेतं सिद्धगन्धर्वकिंनरैः सुरागम् उपधा नित्यं गीयते तस्य वेश्मसु
हन्ताकृतोपकरणैर् मित्राणि गुरुलाघवैः शरणागतसंत्यागी त्यक्तसत्यपरिश्रयः
इति निःशेषमथवा निःशेषं वै न शक्यते तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्
इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् सुरानुवाच भगवांस् ततः स्मितमुखाम्बुजः
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान्
मया स वरदानेन छन्दयित्वा निवारितः तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकात्