दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः दातारो नो ऽभिवर्धन्तां वेदाः संततिरेव च
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्विति अन्नं च नो बहु भवेद् अतिथींश्च लभेमहि
याचितारश्च नः सन्तु मा च याचिष्म कंचन एतदस्त्विति तत्प्रोक्तम् अन्वाहार्यं तु पार्वणम्
यथेन्दुसंक्षये तद्वद् अन्यत्रापि निगद्यते पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा
विप्राग्रतो वा विकिरेद् वयोभिर् अभिवाशयेत् पत्नी तु मध्यमं पिण्डं प्राशयेद् विनयान्विता
आधत्त पितरो गर्भम् अत्र संतानवर्धनम् तावदुच्छेषणं तिष्ठेद् यावद्विप्रा विसर्जिताः
वैश्वदेवं ततः कुर्यान् निवृत्ते पितृकर्मणि इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम्
पुनर् भोजनमध्वानं यानमायासमैथुनम् श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत्
स्वाध्यायकलहं चैव दिवास्वप्नं च सर्वदा अनेन विधिना श्राद्धं निरुद्वास्येह निर्वपेत्
कन्याकुम्भवृषस्थे ऽर्के कृष्णपक्षेषु सर्वदा यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् तत्रानेन विधानेन देयम् अग्निमता सदा
अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम् श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम्
अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च
आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे
वैशाखस्य तृतीयायां नवमी कार्त्तिकस्य च पञ्चदशी च माघस्य नभस्ये च त्रयोदशी
युगादयः स्मृता ह्य् एता दत्तस्याक्षय्यकारिकाः तथा मन्वन्तरादौ च देयं श्राद्धं विजानता
अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिके तथा तृतीया चैत्रमासस्य तथा भाद्रपदस्य च
फाल्गुनस्य ह्य् अमावास्या पौषस्यैकादशी तथा आषाढस्यापि दशमी माघमासस्य सप्तमी
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्चदशी सिता मन्वन्तरादयश् चैता दत्तस्याक्षय्यकारिकाः
यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति
वैशाख्यामुपरागेषु तथोत्सवमहालये तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च
विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता विप्रान्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत्
शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान् द्वौ दैवे त्रींस्तथा पित्र्य एकैकमुभयत्र वा
भोजयेत्सुसमृद्धो ऽपि न प्रसज्जते विस्तरे विश्वान्देवान्यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम्
पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रकम् शं नो देवीत्य् अपः कुर्याद् यवो ऽसीति यवानपि
गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रति न्यसेत् विश्वे देवास इत्याभ्याम् आवाह्य विकिरेद्यवान्
गन्धपुष्पैर् अलंकृत्य या दिव्येत्यर्घ्यमुत्सृजेत् अभ्यर्च्य ताभ्यामुत्सृष्टं पितृकार्यं समारभेत्
दर्भासनं तु दत्त्वादौ त्रीणि पात्राणि पूरयेत् खपवित्राणि कृत्वादौ शं नो देवीत्य् अपः क्षिपेत्
तिलो ऽसीति तिलान्कुर्याद् गन्धपुष्पादिकं पुनः पात्रं वनस्पतिमयं तथा पर्णमयं पुनः
जलजं वाथ कुर्वीत तथा सागरसम्भवम् सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते