चतुर्मुखत्वम् अगमत् कस्माल् लोकपितामहः कथं तु लोकान् असृजद् ब्रह्मा ब्रह्मविदां वरः
तपश् चचार प्रथमम् अमराणां पितामहः आविभूतास् तथा वेदाः साङ्गोपाङ्गपदक्रमाः
पुराणसर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम्
अनन्तरं च वक्त्रेभ्यो वेदास् तस्य विनिःसृताः मीमांसान्यायविद्याश् च प्रमाणाष्टकसंयुताः
वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः मनसः पूर्वसृष्टा वै जाता यत् तेन मानसाः
मरीचिर् अभवत् पूर्वं ततो ऽत्रिर् भगवान् ऋषिः अङ्गिरश् चाभवत् पश्चात् पुलस्त्यस् तदनन्तरम्
ततः पुलहनामा वै ततः क्रतुर् अजायत प्रचेताश् च ततः पुत्रो वसिष्ठश् चाभवत् पुनः
पुत्रो भृगुर् अभूत् तद्वन् नारदो ऽप्य् अचिराद् अभूत् दशेमान् मानसान् ब्रह्मा मुनीन् पुत्रान् अजिजनत्
शारीरान् अथ वक्ष्यामि मातृहीनान् प्रजापतेः अङ्गुष्ठाद् दक्षिणाद् दक्षः प्रजापतिर् अजायत
धर्मः स्तनान्ताद् अभवद् धृदयात् कुसुमायुधः भ्रूमध्याद् अभवत् क्रोधो लोभश् चाधरसंभवः
बुद्धेर् मोहः समभवद् अहंकाराद् अभून् मदः प्रमोदश् चाभवत् कण्ठान् मृत्युर् लोचनतो ण्र्प भरतः करमध्यात् तु ब्रह्मसूनुर् अभूत् ततः
एते नव सुता राजन् कन्या च दशमी पुनः अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता
बुद्धेर् मोहः समभवद् इति यत् परिकीर्तितम् अहंकारः स्मृतः क्रोधो बुद्धिर् नाम किम् उच्यते
सत्त्वं रजस् तमश् चैव गुणत्रयम् उदाहृतम् साम्यावस्थितिर् एतेषां प्रकृतिः परिकीर्तिता
केचित् प्रधानम् इत्य् आहुर् अव्यक्तम् अपरे जगुः एतद् एव प्रजासृष्टिं करोति विकरोति च
गुणेभ्यः क्षोभमाणेभ्यस् त्रयो देवा विजज्ञिरे एका मूर्तिस् त्रयो भागा ब्रह्मविष्णुमहेश्वराः
सविकारात् प्रधानात् तु महत् तत्त्वं प्रजायते महान् इति यतः ख्यातिर् लोकानां जायते सदा
अहंकारश् च महतो जायते मानवर्धनः इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु प्रादुर् भवन्ति चान्यानि तथा कर्मवशानि तु
श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका च यथाक्रमम् पायूपस्थं हस्तपादं वाक्क चेन्द्रियसंग्रहः
शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः उत्सर्गानन्दनादानगत्यालापाश् च तत्क्रियाः
मन एकादशं तेषां कर्मबुद्धिगुणान्वितम् इन्द्रियावयवाः सूक्ष्मास् तस्य मूर्तिं मनीषिणः
श्रयन्ति यस्मात् तन्मात्राः शरीरं तेन संस्मृतम् शरीरयोगाज् जीवो ऽपि शरीरी गद्यते बुधैः
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया आकाशं शब्दतन्मात्राद् अभूच् छब्दगुणात्मकम्
आकाशविकृतेर् वायुः शब्दस्पर्शगुणो ऽभवत् वायोश् च स्पर्शतन्मात्रात् तेजश् चाविर् अभूत् ततः
त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत् तेजोविकाराद् अभवद् वारि राजंश् चतुर्गुणम्
रसतन्मात्रसंभूतं प्रायो रसगुणात्मकम् भूमिस् तु गन्धतन्मात्राद् अभूत् पञ्चगुणान्विता
प्रायो गन्धगुणा सा तु बुद्धिर् एषा गरीयसी एभिः संपादितं भुङ्क्ते पुरुषः पञ्चविंशकः
ईश्वरेच्छावशः सो ऽपि जीवात्मा कथ्यते बुधैः एवं षड्विंशकं प्रोक्तं शरीरम् इह मानवे
सांख्यं संख्यात्मकत्वाच् च कपिलादिभिर् उच्यते एतत् तत्त्वात्मकं कृत्वा जगद् वेधा अजीजनत्
सावित्रीं लोकसृष्ट्यर्थे हृदि कृत्वा समास्थितः ततः संजपतस् तस्य भित्वा देहम् अकल्मषम्