शक्तिं चिक्षेप दुर्धर्षां दानवेन्द्राय संयुगे नवा शिरीषमालेव सास्य वक्षस्यराजत
ततः खड्गं समाकृष्य कोशाद् आकाशनिर्मलम् भासितासितदिग्भागं लोकपालो ऽपि निरृतिः
चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम्
जलेशस्तूग्रदुर्धर्षं विषपावकभैरवम् मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषुकः
स दैत्यभुजमासाद्य सर्पः सद्यो व्यपद्यत स्फुटितक्रकचक्रूरदशनालिर् महाहनुः
ततो ऽश्विनौ समरुतः ससाध्याः समहोरगाः यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः
जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः न चास्त्राण्यस्य सजन्ति गात्रे वज्राचलोपमे
ततो रथादवप्लुत्य तारको दानवाधिपः जघान कोटिशो देवान् करपार्ष्णिभिरेव च
हतशेषाणि सैन्यानि देवानां विप्रदुद्रुवुः दिशो भीतानि संत्यज्य रणोपकरणानि तु
लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे सकेशवान्दृढैः पाशैः पशुमारः पशूनिव
स भूयो रथमास्थाय जगाम स्वकमालयम् सिद्धगन्धर्वसंघुष्टविपुलाचलमस्तकम्
स्तूयमानो दितिसुतैर् अप्सरोभिर्विनोदितः त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत्स्वपुरं यथा
निषसादासने पद्मरागरत्नविनिर्मिते ततः किंनरगन्धर्वनागनारीविनोदितैः क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः
प्रादुरासीत्प्रतीहारः शुभ्रनीलाम्बुजाम्बरः स जानुभ्यां महीं गत्वा पिहितास्यः स्वपाणिना
उवाचानाविलं वाक्यम् अल्पाक्षरपरिस्फुटम् दैत्येन्द्रमर्कवृन्दानां बिभ्रतं भास्वरं वपुः
कालनेमिः सुरान्बद्धांश् चादाय द्वारि तिष्ठति स विज्ञापयति स्थेयं क्व बन्दिभिरिति प्रभो
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम् यथेष्टं स्थीयतामेभिर् गृहं मे भुवनत्रयम्
केवलं पाशबन्धेन विमुक्तैरविलम्बितम् एवं कृते ततो देवा दूयमानेन चेतसा
जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम् निवेदितास्ते शक्राद्याः शिरोभिर्धरणिं गताः तुष्टुवुः स्पष्टवर्णार्थैर् वचोभिः कमलासनम्
त्वमोंकारो ऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम् सम्भूतस्यानन्तरं सत्त्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्ते
व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना तस्मादण्डात् साभिधानादचिन्त्यः द्यावापृथ्व्योर् ऊर्ध्वखण्डावराम्यां ह्य् अण्डादस्मात्त्वं विभागं करोषि
व्यक्तं मेरौ यज्जनायुस्तवाभूद् एवं विद्मस्त्वत्प्रणीतश्चकास्ति व्यक्तं देवा जन्मनः शाश्वतस्य द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ
व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते पादौ भूमिर्नाभिरन्ध्रे समुद्राः मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः
वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा हृत्पद्मान्तःसंनिविष्टं पुराणम् त्वामात्मानं लब्धयोगा गृणन्ति सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः
तासां हेतुर्याष्टमी चापि गीता तस्यां तस्यां गीयसे वै त्वमन्तम् दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार देवैर्भावाः कारणैः कैश्चिदुक्ताः
सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तां तां वासनां ते ऽभ्युपेयुः त्वत्संकल्पेनान्तमायाप्तिगूढः कालो मेयो ध्वस्तसंख्याविकल्पः
भावाभावव्यक्तिसंहारहेतुस् त्वं सो ऽनन्तस्तस्य कर्तासि चात्मन् ये ऽन्ये सूक्ष्माः सन्ति तेभ्यो ऽभिगीतः स्थूला भावाश्चावृतारश्च तेषाम्
तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चैवमुद्भूतिभाजाम् भावे भावे भावितं त्वा युनक्ति युक्तं युक्तं व्यक्तिभावान्निरस्य इत्थं देवो भक्तिभाजां शरण्यस् त्राता गोप्ता नो भवानन्तमूर्तिः
विरेमुरमराः स्तुत्वा ब्रह्माणमविकारिणम् तस्थुर्मनोभिर् इष्टार्थसम्प्राप्तिप्रार्थनास्ततः
एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः अमरान्वरदेनाह वामहस्तेन निर्दिशन्