लब्धसंज्ञः क्षणाद्विष्णुश् चक्रं जग्राह दुर्धरम् दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम्
मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः पपात चक्रं दैत्यस्य हृदये भास्करद्युति
व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितं चिरम्
यस्मिञ्जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत् तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः
व्यशीर्यत विकीर्णार्चिः शतधा खण्डतां गतम् विनाशमगमन्मुक्तं वायुनासुरवक्षसि
ज्वलितं ज्वलनाभासम् अङ्कुशं कुलिशं यथा विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे
रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम् चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम्
महीधरं तम् आयान्तं दैत्यः स्मितमुखस्तदा जग्राह वामहस्तेन बालकन्दुकलीलया
ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्छितः दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः
सो ऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं च न बुद्धवान् कल्पान्तदहनालोकाम् अजय्यां ज्वलनस्ततः
शक्तिं चिक्षेप दुर्धर्षां दानवेन्द्राय संयुगे नवा शिरीषमालेव सास्य वक्षस्यराजत
ततः खड्गं समाकृष्य कोशाद् आकाशनिर्मलम् भासितासितदिग्भागं लोकपालो ऽपि निरृतिः
चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम्
जलेशस्तूग्रदुर्धर्षं विषपावकभैरवम् मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषुकः
स दैत्यभुजमासाद्य सर्पः सद्यो व्यपद्यत स्फुटितक्रकचक्रूरदशनालिर् महाहनुः
ततो ऽश्विनौ समरुतः ससाध्याः समहोरगाः यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः
जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः न चास्त्राण्यस्य सजन्ति गात्रे वज्राचलोपमे
ततो रथादवप्लुत्य तारको दानवाधिपः जघान कोटिशो देवान् करपार्ष्णिभिरेव च
हतशेषाणि सैन्यानि देवानां विप्रदुद्रुवुः दिशो भीतानि संत्यज्य रणोपकरणानि तु
लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे सकेशवान्दृढैः पाशैः पशुमारः पशूनिव
स भूयो रथमास्थाय जगाम स्वकमालयम् सिद्धगन्धर्वसंघुष्टविपुलाचलमस्तकम्
स्तूयमानो दितिसुतैर् अप्सरोभिर्विनोदितः त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत्स्वपुरं यथा
निषसादासने पद्मरागरत्नविनिर्मिते ततः किंनरगन्धर्वनागनारीविनोदितैः क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः
प्रादुरासीत्प्रतीहारः शुभ्रनीलाम्बुजाम्बरः स जानुभ्यां महीं गत्वा पिहितास्यः स्वपाणिना
उवाचानाविलं वाक्यम् अल्पाक्षरपरिस्फुटम् दैत्येन्द्रमर्कवृन्दानां बिभ्रतं भास्वरं वपुः
कालनेमिः सुरान्बद्धांश् चादाय द्वारि तिष्ठति स विज्ञापयति स्थेयं क्व बन्दिभिरिति प्रभो
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम् यथेष्टं स्थीयतामेभिर् गृहं मे भुवनत्रयम्
केवलं पाशबन्धेन विमुक्तैरविलम्बितम् एवं कृते ततो देवा दूयमानेन चेतसा
जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम् निवेदितास्ते शक्राद्याः शिरोभिर्धरणिं गताः तुष्टुवुः स्पष्टवर्णार्थैर् वचोभिः कमलासनम्
त्वमोंकारो ऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम् सम्भूतस्यानन्तरं सत्त्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्ते