शरैरग्निकल्पैश्चकाराशु दैत्यस् तथा राक्षसान्भीतभीतान्दिशासु पृषत्कैश्च रूक्षैर्विकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः
अथानम्य चापं हरिस्तीक्ष्णबाणैर् हनत्सारथिं दैत्यराजस्य हृद्यम् ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धपृष्ठम् यमो बाहुदण्डं रथाङ्गानि वायुर् निशाचारिणाम् ईश्वरस्यापि वर्म
दृष्ट्वा तद्युद्धममरैर् अकृत्रिमपराक्रमम् दैत्यनाथः कृतं संख्ये स्वबाहुयुगबान्धवः
मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे दृष्ट्वा मुद्गरम् आयान्तम् अनिवार्यमथाम्बरे
रथादाप्लुत्य धरणीम् अगमत्पाकशासनः मुद्गरो ऽपि रथोपस्थे पपात परुषस्वनः
स रथं चूर्णयामास न ममार च मातलिः गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम्
स्कन्धे गरुत्मतः सो ऽपि निषसाद विचेतनः खड्गेन राक्षसेन्द्रस्य निचकर्त च वाहनम्
यमं च पातयामास भूमौ दैत्यो भुशुण्डिना वह्निं च भिन्दिपालेन ताडयामास मूर्धनि
वायुं च दोर्भ्यामुत्क्षिप्य पातयामास भूतले धनेशं च धनुष्कोट्या कुट्टयामास कोपनः
ततो देवनिकायानाम् एकैकं समरे ततः जघानास्त्रैरसंख्येयैर् दैत्येन्द्रो ऽमितविक्रमः
लब्धसंज्ञः क्षणाद्विष्णुश् चक्रं जग्राह दुर्धरम् दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम्
मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः पपात चक्रं दैत्यस्य हृदये भास्करद्युति
व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितं चिरम्
यस्मिञ्जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत् तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः
व्यशीर्यत विकीर्णार्चिः शतधा खण्डतां गतम् विनाशमगमन्मुक्तं वायुनासुरवक्षसि
ज्वलितं ज्वलनाभासम् अङ्कुशं कुलिशं यथा विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे
रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम् चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम्
महीधरं तम् आयान्तं दैत्यः स्मितमुखस्तदा जग्राह वामहस्तेन बालकन्दुकलीलया
ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्छितः दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः
सो ऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं च न बुद्धवान् कल्पान्तदहनालोकाम् अजय्यां ज्वलनस्ततः
शक्तिं चिक्षेप दुर्धर्षां दानवेन्द्राय संयुगे नवा शिरीषमालेव सास्य वक्षस्यराजत
ततः खड्गं समाकृष्य कोशाद् आकाशनिर्मलम् भासितासितदिग्भागं लोकपालो ऽपि निरृतिः
चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम्
जलेशस्तूग्रदुर्धर्षं विषपावकभैरवम् मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषुकः
स दैत्यभुजमासाद्य सर्पः सद्यो व्यपद्यत स्फुटितक्रकचक्रूरदशनालिर् महाहनुः
ततो ऽश्विनौ समरुतः ससाध्याः समहोरगाः यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः
जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः न चास्त्राण्यस्य सजन्ति गात्रे वज्राचलोपमे
ततो रथादवप्लुत्य तारको दानवाधिपः जघान कोटिशो देवान् करपार्ष्णिभिरेव च
हतशेषाणि सैन्यानि देवानां विप्रदुद्रुवुः दिशो भीतानि संत्यज्य रणोपकरणानि तु
लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे सकेशवान्दृढैः पाशैः पशुमारः पशूनिव