सावलेपं ससंरम्भं सगर्वं सपराक्रमम् साविष्कारमनाकारं तारको भावमाविशत्
स जैत्रं रथमास्थाय सहस्रेण गरुत्मताम् संरम्भाद्दानवेन्द्रस्तु सुरै रणमुखे गतः
सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः त्रैलोक्यऋद्धिसम्पन्नः सुविस्तृतमहाननः
रणायाभ्यपतत्तूर्णं सैन्येन महता वृतः जम्भास्त्रक्षतसर्वाङ्गं त्यक्त्वैरावतदन्तिनम्
सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा तप्तहेमपरिष्कारं महारत्नसमन्वितम्
चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम् गन्धर्वकिंनरोद्गीतम् अप्सरोनृत्यसंकुलम्
सर्वायुधम् असंबाधं विचित्ररचनोज्ज्वलम् तं रथं देवराजस्य परिवार्य समन्ततः
दंशिता लोकपालास्तु तस्थुः सगरुडध्वजाः ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ
ततो ऽम्बुधय उद्भूतास् ततो नष्टा रविप्रभा ततस्तमः समुद्भूतं नातो ऽदृश्यन्त तारकाः
ततो जज्वलुरस्त्राणि ततो ऽकम्पत वाहिनी एकतस्तारको दैत्यः सुरसंघस्तु चैकतः
लोकावसादमेकत्र जगत्पालनमेकतः चराचराणि भूतानि सुरासुरविभेदतः
तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव यद्वस्तु किंचिल् लोकेषु त्रिषु सत्तास्वरूपकम् तत् तत्रादृश्यद् अखिलं खिलीभूतविभूतिकम्
अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्यपराक्रमौ च सत्त्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन
अथाभिमुखम् आयान्तं नवभिर्नतपर्वभिः बाणैरनलकल्पाग्रैर् बिभिदुस्तारकं हृदि
स तानचिन्त्य दैत्येन्द्रः सुरबाणान्गतान्हृदि नवभिर्नवभिर्बाणैः सुरान्विव्याध दानवः
जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः ततो ऽच्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः
अनन्तरं च कान्तानाम् अश्रुपातमिवानिशम् तदप्राप्तं वियत्येव नाशयामास दानवः
शरैर्यथा कुचरितैः प्रख्यातं परमागतम् सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम्
ततो निवार्य तद्बाणजालं सुरभुजेरितम् बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः
चिछेद पुङ्खदेशेषु स्वके स्थाने च लाघवात् बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः
कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्ज्वलैः शास्त्रार्थैः संशयप्राप्तान् यथार्थान्वै विकल्पितैः
ततः शतेन बाणानां शक्रं विव्याध दानवः नारायणं च सप्तत्या नवत्या च हुताशनम्
दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च धनदं चैव सप्तत्या वरुणं च तथाष्टभिः
विंशत्या निरृतिं दैत्यः पुनश्चाष्टाभिरेव च विव्याध पुनरेकैकं दशभिर्दशभिः शरैः
तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः गरुडं दशभिश्चैव स विव्याध पतत्रिभिः
पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः चकार वर्मजातानि चिछेद च धनूंषि तु ततो विकवचा देवा विधनुष्काः शरैः कृताः
अथान्यानि चापानि तस्मिन्सरोषा रणे लोकपाला गृहीत्वा समन्तात् शरैरक्षयैर्दानवेन्द्रं ततक्षुस् तदा दानवो ऽमर्षसंरक्तनेत्रः
शरानग्निकल्पान्ववर्षामराणां ततो बाणमादाय कल्पानलाभम् जघानोरसि क्षिप्रमिन्द्रं सुबाहुं महेन्द्रो व्यकम्पद्रथोपस्थ एव
विलोक्यान्तरिक्षे सहस्रार्कबिम्बं पुनर्दानवो विष्णुमुद्भूतवीर्यम् शराभ्यां जघानांसमूले सलीलं ततः केशवस्यापतच्छार्ङ्गमग्रे
ततस्तारकः प्रेतनाथं पृषत्कैर् वसुं तस्य सव्ये स्मरन्क्षुद्रभावम् शरैरग्निकल्पैर्जलेशस्य कायं रणे ऽशोषयद्दुर्जयो दैत्यराजः