संरम्भेणाप्ययुध्यन्त संहतास्तुमुलेन च गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः
दैत्यास्त्रभिन्नसर्वाङ्गा ह्य् अकिंचित्करतां गताः परस्परं व्यलीयन्त गावः शीतार्दिता इव
तदवस्थान्हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह ब्रह्मास्त्रं स्मर देवेन्द्र यस्यावध्यो न विद्यते विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम्
सम्पूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने धनुष्यजय्ये विनियोज्य बुद्धिमान् अभूत्ततो मन्त्रसमाधिमानसः
स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसंध्य तु विकृष्य कर्णान्तम् अकुण्ठदीधितिं मुमोच वीक्ष्याम्बरमार्गमुन्मुखः
अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्ठत प्रवेपमानेन मुखेन शुष्यता बलेन गात्रेण च संभ्रमाकुलः
ततस्तु तस्यास्त्रवराभिमन्त्रितः शरो ऽर्धचन्द्रप्रतिमो महारणे पुरंदरस्यासनबन्धुतां गतो नवार्कबिम्बं वपुषा विडम्बयन्
किरीटकोटिस्फुटकान्तिसंकटं सुगन्धिनानाकुसुमाधिवासितम् प्रकीर्णधूमज्वलनाभमूर्धजं पपात जम्भस्य शिरः सकुण्डलम्
तस्मिन्विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः
तांस्तु त्रस्तान्समालोक्य श्रुत्वारोषमगात्परम् स जम्भदानवेन्द्रं तु सुरै रणमुखे हतम्
सावलेपं ससंरम्भं सगर्वं सपराक्रमम् साविष्कारमनाकारं तारको भावमाविशत्
स जैत्रं रथमास्थाय सहस्रेण गरुत्मताम् संरम्भाद्दानवेन्द्रस्तु सुरै रणमुखे गतः
सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः त्रैलोक्यऋद्धिसम्पन्नः सुविस्तृतमहाननः
रणायाभ्यपतत्तूर्णं सैन्येन महता वृतः जम्भास्त्रक्षतसर्वाङ्गं त्यक्त्वैरावतदन्तिनम्
सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा तप्तहेमपरिष्कारं महारत्नसमन्वितम्
चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम् गन्धर्वकिंनरोद्गीतम् अप्सरोनृत्यसंकुलम्
सर्वायुधम् असंबाधं विचित्ररचनोज्ज्वलम् तं रथं देवराजस्य परिवार्य समन्ततः
दंशिता लोकपालास्तु तस्थुः सगरुडध्वजाः ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ
ततो ऽम्बुधय उद्भूतास् ततो नष्टा रविप्रभा ततस्तमः समुद्भूतं नातो ऽदृश्यन्त तारकाः
ततो जज्वलुरस्त्राणि ततो ऽकम्पत वाहिनी एकतस्तारको दैत्यः सुरसंघस्तु चैकतः
लोकावसादमेकत्र जगत्पालनमेकतः चराचराणि भूतानि सुरासुरविभेदतः
तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव यद्वस्तु किंचिल् लोकेषु त्रिषु सत्तास्वरूपकम् तत् तत्रादृश्यद् अखिलं खिलीभूतविभूतिकम्
अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्यपराक्रमौ च सत्त्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन
अथाभिमुखम् आयान्तं नवभिर्नतपर्वभिः बाणैरनलकल्पाग्रैर् बिभिदुस्तारकं हृदि
स तानचिन्त्य दैत्येन्द्रः सुरबाणान्गतान्हृदि नवभिर्नवभिर्बाणैः सुरान्विव्याध दानवः
जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः ततो ऽच्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः
अनन्तरं च कान्तानाम् अश्रुपातमिवानिशम् तदप्राप्तं वियत्येव नाशयामास दानवः
शरैर्यथा कुचरितैः प्रख्यातं परमागतम् सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम्
ततो निवार्य तद्बाणजालं सुरभुजेरितम् बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः
चिछेद पुङ्खदेशेषु स्वके स्थाने च लाघवात् बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः