ततः शक्रः प्रकुपितो दानवं प्रति देवराट् नारायणास्त्रं प्रयतो मुमोचासुरवक्षसि
ततो नारायणास्त्रं तत् पपातासुरवक्षसि महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः
रणागारमिवोद्गारं तत्याजासुरनन्दनः तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम्
ततश्चान्तर्दधे दैत्यो वियत्यनुपलक्षितः गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम्
मुमोच सुरसैन्यानां संहारे कारणं परम् प्रासान्परश्वधांश्चक्रान् बाणान्वज्रान्समुद्गरान्
कुठारान्सह खड्गैश्च भिन्दिपालानयोगुडान् ववर्ष दानवो रौद्रो ह्य् अबन्ध्यानक्षयानपि
तैरस्त्रैर्दानवैर्मुक्तैर् देवानीकेषु भीषणैः बाहुभिर्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः
ऊरुभिर् गजहस्ताभैः करीन्द्रैर्वाचलोपमैः भग्नेषादण्डचक्राक्षै रथैः सारथिभिः सह
दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा रुधिरौघह्रदावर्ता शवराशिशिलोच्चयैः
कबन्धनृत्यसंकुले स्रवद्वसास्रकर्दमे जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् शृगालगृध्रवायसाः परं प्रमोदमादधुः क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः
विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित् क्वचित्स्थितो ऽतिभीषणः श्वचञ्चुचर्वितो बकः मृतस्य मांसमाहरञ्छ्वजातयश्च संस्थिताः क्वचिद्वृको गजासृजं पपौ निलीयतान्त्रतः
क्वचित् तुरंगमण्डली विकृष्यते श्वजातिभिः क्वचित्पिशाचजातकैः प्रपीतशोणितासवैः स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसंभ्रमैर् ममैतदानयाननं खुरो ऽयमस्तु मे प्रियः
करो ऽयमब्जसंनिभो ममास्तु कर्णपूरकः सरोषमीक्षते ऽपरा वपां विना प्रियं तदा परा प्रिया ह्यवाप यद्भृतोष्णशोणितासवं विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम्
चकार यक्षकामिनी तरुं कुठारपाटितं गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम् विपाट्य मौक्तिकं परं प्रियप्रसादमिच्छते समांसशोणितासवं पपुश्च यक्षराक्षसाः
मृताश्वकेशवासितं रसं प्रगृह्य पाणिना प्रियाविमुक्तजीवितं समानयासृगासवम् न पथ्यतां प्रयाति मे गतं श्मशानगोचरं नरस्य तज्जहात्यसौ प्रशस्य किंनराननम्
स नाग एष नो भयं दधाति मुक्तजीवितो न दानवस्य शक्यते मया तदेकयाननम् इति प्रियाय वल्लभा वदन्ति यक्षयोषितः परे कपालपाणयः पिशाचयक्षराक्षसाः
वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः परे ऽवतीर्य शोणितापगासु धौतमूर्तया पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैर् गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम्
इति प्रगाढसंकटे सुरासुरे सुसंगरे भयं समुझ्य दुर्जया भटाः स्फुटन्ति मानिनः
तत शक्रो धनेशश्च वरुणः पवनो ऽनलः यमो ऽपि निरृतिश्चापि दिव्यास्त्राणि महाबलाः
आकाशे मुमुचुः सर्वे दानवानभिसंध्य ते अस्त्राणि व्यर्थतां जग्मुर् देवानां दानवान्प्रति
संरम्भेणाप्ययुध्यन्त संहतास्तुमुलेन च गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः
दैत्यास्त्रभिन्नसर्वाङ्गा ह्य् अकिंचित्करतां गताः परस्परं व्यलीयन्त गावः शीतार्दिता इव
तदवस्थान्हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह ब्रह्मास्त्रं स्मर देवेन्द्र यस्यावध्यो न विद्यते विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम्
सम्पूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने धनुष्यजय्ये विनियोज्य बुद्धिमान् अभूत्ततो मन्त्रसमाधिमानसः
स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसंध्य तु विकृष्य कर्णान्तम् अकुण्ठदीधितिं मुमोच वीक्ष्याम्बरमार्गमुन्मुखः
अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्ठत प्रवेपमानेन मुखेन शुष्यता बलेन गात्रेण च संभ्रमाकुलः
ततस्तु तस्यास्त्रवराभिमन्त्रितः शरो ऽर्धचन्द्रप्रतिमो महारणे पुरंदरस्यासनबन्धुतां गतो नवार्कबिम्बं वपुषा विडम्बयन्
किरीटकोटिस्फुटकान्तिसंकटं सुगन्धिनानाकुसुमाधिवासितम् प्रकीर्णधूमज्वलनाभमूर्धजं पपात जम्भस्य शिरः सकुण्डलम्
तस्मिन्विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः
तांस्तु त्रस्तान्समालोक्य श्रुत्वारोषमगात्परम् स जम्भदानवेन्द्रं तु सुरै रणमुखे हतम्