ततो वज्रास्त्रम् अकरोत् सहस्राक्षः पुरंदरः तदोपलमहावर्षं व्यशीर्यत समन्ततः
ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसंनिभः ऐषीकमस्त्रमकरोद् अभीतो ऽतिपराक्रमः
ऐषीकेणागमन्नाशं वज्रास्त्रं शक्रवल्लभम् विजृम्भत्यथ चैषीके परमास्त्रे ऽतिदुर्धरे
जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः
आग्नेयमस्त्रमकरोद् बलवान्पाकशासनः तेनास्त्रेण तदस्त्रं च बभ्रंशे तदनन्तरम्
तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत जज्वाल कायं जम्भस्य सरथं च ससारथिम्
ततः प्रतिहतः सो ऽथ दैत्येन्द्रः प्रतिभानवान् वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम्
ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः गम्भीरमुरजध्वानैर् आपूरितम् इवाम्बरम्
करीन्द्रकरतुल्याभिर् जलधाराभिर् अम्बरात् पतन्तीभिर्जगत्सर्वं क्षणेनापूरितं बभौ
शान्तमाग्नेयमस्त्रं तत् प्रविलोक्य सुराधिपः वायव्यम् अस्त्रम् अकरोन् मेघसंघातनाशनम्
वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले बभूव विमलं व्योम नीलोत्पलदलप्रभम्
वायुना चातिघोरेण कम्पितास्ते तु दानवाः न शेकुस्तत्र ते स्थातुं रणे ऽतिबलिनो ऽपि ये
तदा जम्भो ऽभवच्छैलो दशयोजनविस्तृतः मारुतप्रतिघातार्थं दानवानां भयापहः
मुक्तनानायुधोदग्रतेजो ऽभिज्वलितद्रुमः ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ
महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः तयाशन्या पतितया दैत्यस्याचलरूपिणः
कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत
निवृत्तशैलमायो ऽथ दानवेन्द्रो मदोत्कटः बभूव कुञ्जरो भीमो महाशैलसमाकृतिः
स ममर्द सुरानीकं दन्तैश्चाप्यहनत्सुरान् बभञ्ज पृष्ठतः कांश्चित् करेणावेष्ट्य दानवः
ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह
ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसा कृष्णदंष्ट्राट्टहासानि क्रकचाभनखानि च
तैर्विपाटितगात्रो ऽसौ गजमायां व्यपोथयत् ततश्चाशीविषो घोरो ऽभवत्फणशताकुलः
विषनिःश्वासनिर्दग्धं सुरसैन्यं महारथः ततो ऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा
ततो गरुत्मतस्तस्मात् सहस्राणि विनिर्ययुः तैर्गरुत्मद्भिरासाद्य जम्भो भुजगरूपवान् कृतस्तु खण्डशो दैत्यः सास्य माया व्यनश्यत
प्रनष्टायां तु मायायां ततो जम्भो महासुरः चकार रूपमतुलं चन्द्रादित्यपथानुगम् विवृत्तवदनो ग्रस्तुम् इयेष सुरपुंगवान्
ततो ऽस्य विविशुर्वक्त्रं समहारथकुञ्जरा सुरसेनाविशद्भीमं पातालोत्तानतालुकम्
सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः
कर्तव्यतां नाध्यगच्छत् प्रोवाचेदं जनार्दनम् किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम्
यदाश्रित्य घटामो ऽस्य दानवस्य युयुत्सवः ततो हरिरुवाचेदं वज्रायुधमुदारधीः
न सांप्रतं रणस्त्याज्यस् त्वया कातरभैरवः वर्धस्वाशु महामायां पुरंदर रिपुं प्रति
मयैष लक्षितो दैत्यो ऽधिष्ठितः प्राप्तपौरुषः मा शक्र मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो