तेनास्य सशरं चापं रणे चिछेद वृत्रहा क्षिप्रं संत्यज्य तच्चापं जम्भो दानवनन्दनः
अन्यत्कार्मुकमादाय वेगवद्भारसाधनम् शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान्
शक्रं विव्याध दशभिर् जत्रुदेशे तु पत्त्रिभिः हृदये च त्रिभिश्चापि द्वाभ्यां च स्कन्धयोर् द्वयोः
शक्रो ऽपि दानवेन्द्राय बाणजालमपीदृशम् अप्राप्तान्दानवेन्द्रस्तु शराञ्छक्रभुजेरितान्
चिछेद दशधाकाशे शरैरग्निशिखोपमैः ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम्
आच्छादयत यत्नेन वर्षास्विव घनैर्नभः दैत्यो ऽपि बाणजालं तद् व्यधमत्सायकैः शितैः
यथा वायुर्घनाटोपं परिवार्य दिशो मुखे शक्रो ऽथ क्रोधसंरम्भान् न विशेषयते यदा
दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम् तदुत्थतेजसा व्याप्तम् अभूद्गमनगोचरम्
गन्धर्वनगरैश् चापि नानाप्राकारतोरणैः मुञ्चद्भिरद्भुताकारैर् अस्त्रवृष्टिं समन्ततः
अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः जम्भं शरणमागच्छद् अप्रमेयपराक्रमम्
व्याकुलो ऽपि स्वयं दैत्यः सहस्राक्षास्त्रपीडितः स्मरन्साधुसमाचारं भीतत्राणपरो ऽभवत्
अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः ततो ऽयोमुसलैः सर्वम् अभवत्पूरितं जगत्
एकप्रहारकरणैर् अप्रधृष्यैः समन्ततः गन्धर्वनगरं तेषु गन्धर्वास्त्रविनिर्मितम्
गान्धर्वमस्त्रं संधाय सुरसैन्येषु चापरम् एकैकेन प्रहारेण गजानश्वान्महारथान्
रथाश्वान्सो ऽहनत्क्षिप्रं शतशो ऽथ सहस्रशः ततः सुराधिपस्त्वाष्ट्रम् अस्त्रं च समुदीरयत्
संध्यमाने ततस्त्वाष्ट्रे निश्चेरुः पावकार्चिषः ततो यन्त्रमयान् दिव्यान् आयुधान्दुष्प्रधर्षिणः
तैर्यन्त्रैरभवद्बद्धम् अन्तरिक्षे वितानकम् वितानकेन तेनाथ प्रशमं मौसले गते
शैलास्त्रं मुमुचे जम्भो यन्त्रसंघातताडनम् व्यामप्रमाणैरुपलैस् ततो वर्षमवर्तत
त्वाष्ट्रस्य निर्मितान्याशु यन्त्राणि तदनन्तरम् तेनोपलनिपातेन गतानि तिलशस्ततः
यन्त्राणि तिलशः कृत्वा शैलास्त्रं परमूर्धसु निपपातातिवेगेना-दारयत्पृथिवीं ततः
ततो वज्रास्त्रम् अकरोत् सहस्राक्षः पुरंदरः तदोपलमहावर्षं व्यशीर्यत समन्ततः
ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसंनिभः ऐषीकमस्त्रमकरोद् अभीतो ऽतिपराक्रमः
ऐषीकेणागमन्नाशं वज्रास्त्रं शक्रवल्लभम् विजृम्भत्यथ चैषीके परमास्त्रे ऽतिदुर्धरे
जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः
आग्नेयमस्त्रमकरोद् बलवान्पाकशासनः तेनास्त्रेण तदस्त्रं च बभ्रंशे तदनन्तरम्
तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत जज्वाल कायं जम्भस्य सरथं च ससारथिम्
ततः प्रतिहतः सो ऽथ दैत्येन्द्रः प्रतिभानवान् वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम्
ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः गम्भीरमुरजध्वानैर् आपूरितम् इवाम्बरम्
करीन्द्रकरतुल्याभिर् जलधाराभिर् अम्बरात् पतन्तीभिर्जगत्सर्वं क्षणेनापूरितं बभौ
शान्तमाग्नेयमस्त्रं तत् प्रविलोक्य सुराधिपः वायव्यम् अस्त्रम् अकरोन् मेघसंघातनाशनम्