यां यां निमिगजो याति दिशं तां तां सवाहना संत्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतयः गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः
पलायितेषु सैन्येषु सुराणां पाकशासनः तस्थौ दिक्पालकैः सार्धम् अष्टभिः केशवेन च
सम्प्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति तावच्छक्रगजो यातो मुक्त्वा नादं स भैरवम्
ध्रियमाणो ऽपि यत्नेन स रणे नैव तिष्ठति पलायिते गजे तस्मिन्न् आरूढः पाकशासनः
विपरीतमुखो ऽयुध्यद् दानवेन्द्रबलं प्रति शतक्रतुस्तु वज्रेण निमिं वक्षस्यताडयत्
गदया दन्तिनश्चास्य गण्डदेशे ऽहनद्दृढम् तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः
ऐरावणं कटीदेशे मुद्गरेणाभ्यताडयत् स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे
जगाम पश्चाच्चरणैर् धरणीं भूधराकृतिः लाघवात्क्षिप्रमुत्थाय ततो ऽमरमहागजः
रणादपससर्पाशु भीषितो निमिहस्तिना ततो वायुर्ववौ रूक्षो बहुशर्करपांसुलः
संमुखो निमिमातङ्गो जवनाचलकम्पनः स्रुतरक्तो बभौ शैलो घनधातुह्रदो यथा
धनेशो ऽपि गदां गुर्वीं तस्य दानवहस्तिनः चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्धनि
गजो गदानिपातेन स तेन परिमूर्छितः दन्तैर्भित्त्वा धरां वेगात् पपाताचलसंनिभः
पतिते तु गजे तस्मिन् सिंहनादो महानभूत् सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः
ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम् गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम्
श्रुत्वा च सिंहनादं च सुराणामतिकोपनः जम्भो जज्वाल कोपेन पीताज्य इव पावकः
स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम् तिष्ठतेत्यब्रवीत्तावत् सारथिं चाप्यचोदयत्
वेगेन चलतस्तस्य तद्रथस्याभवद्द्युतिः यथादित्यसहस्रस्याभुदितस्योदयाचले
पताकिना रथेनाजौ किङ्किणीजालमालिना शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु
घट्टयन्सुरसैन्यानां हृदयं समदृश्यत तम् आयान्तम् अभिप्रेक्ष्य धनुष्याहितसायकः
शतक्रतुरदीनात्मा दृढमाधत्त कार्मुकम् बाणं च तैलधौताग्रम् अर्धचन्द्रमजिह्मगम्
तेनास्य सशरं चापं रणे चिछेद वृत्रहा क्षिप्रं संत्यज्य तच्चापं जम्भो दानवनन्दनः
अन्यत्कार्मुकमादाय वेगवद्भारसाधनम् शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान्
शक्रं विव्याध दशभिर् जत्रुदेशे तु पत्त्रिभिः हृदये च त्रिभिश्चापि द्वाभ्यां च स्कन्धयोर् द्वयोः
शक्रो ऽपि दानवेन्द्राय बाणजालमपीदृशम् अप्राप्तान्दानवेन्द्रस्तु शराञ्छक्रभुजेरितान्
चिछेद दशधाकाशे शरैरग्निशिखोपमैः ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम्
आच्छादयत यत्नेन वर्षास्विव घनैर्नभः दैत्यो ऽपि बाणजालं तद् व्यधमत्सायकैः शितैः
यथा वायुर्घनाटोपं परिवार्य दिशो मुखे शक्रो ऽथ क्रोधसंरम्भान् न विशेषयते यदा
दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम् तदुत्थतेजसा व्याप्तम् अभूद्गमनगोचरम्
गन्धर्वनगरैश् चापि नानाप्राकारतोरणैः मुञ्चद्भिरद्भुताकारैर् अस्त्रवृष्टिं समन्ततः
अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः जम्भं शरणमागच्छद् अप्रमेयपराक्रमम्