विप्राणां क्षालयेत् पादाव् अभिनन्द्य पुनः पुनः आसनेषूपकॢप्तेषु दर्भवत्सु विधानवत्
उपस्पृष्टोदकान्विप्रान् उपवेश्यानुमन्त्रयेत् द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र च
भोजयेदीश्वरो ऽपीह न कुर्याद्विस्तरं बुधः दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः
अग्नौ कुर्यादनुज्ञातो विप्रैर् विप्रो यथाविधि स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः
अग्नीषोमयमाभ्यां तु कुर्यादाप्यायनं बुधः दक्षिणाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः
यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम् प्राचीनावीतिना कार्यम् अतः सर्वं विजानता
षट् च तस्माद्धविःशेषात् पिण्डान्कृत्वा ततोदकम् दद्यादुदकपात्रैस् तु सतिलं सव्यपाणिना
जान्व् आच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः विधाय लेखा यत्नेन निर्वापेष्ववनेजनम्
दक्षिणाभिमुखः कुर्यात् करे दर्वीं निधाय वै निधाय पिण्डम् एकैकं सर्वदर्भेष्वनुक्रमात्
निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनाम्
तथैव च ततः कुर्यात् पुनः प्रत्यवनेजनम् षडप्यृतून्नमस्कृत्य गन्धधूपार्हणादिभिः
एवमावाह्य तत्सर्वं वेदमन्त्रैर्यथोदितैः एकाग्नेरेक एव स्यान् निर्वापो दर्विका तथा
ततः कृत्वान्तरे दद्यात् पत्नीभ्यो ऽन्नं कुशेषु सः तद्वत्पिण्डादिके कुर्याद् आवाहनविसर्जनम्
ततो गृहीत्वा पिण्डेभ्यो मात्राः सर्वाः क्रमेण तु तानेव विप्रान्प्रथमं प्राशयेद्यत्नतो नरः
यस्मादन्नाद्धृता मात्रा भक्षयन्ति द्विजातयः अन्वाहार्यकम् इत्युक्तं तस्मात्तच्चन्द्रसंक्षये
पूर्वं दत्त्वा तु तद्धस्ते सपवित्रं तिलोदकम् तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन्
वर्णयन्भोजयेदन्नं मिष्टं पूतं च सर्वदा वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम्
तृप्ताञ्ज्ञात्वा ततः कुर्याद् विकिरन्सार्ववर्णिकम् सोदकं चान्नमुद्धृत्य सलिलं प्रक्षिपेद्भुवि
आचान्तेषु पुनर्दद्याज् जलपुष्पाक्षतोदकम् स्वस्तिवाचनकं सर्वं पिण्डोपरि समाहरेत्
देवाद्यन्तं प्रकुर्वीत श्राद्धनाशो ऽन्यथा भवेत् विसृज्य ब्राह्मणांस्तद्वत् तेषां कृत्वा प्रदक्षिणम्
दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः दातारो नो ऽभिवर्धन्तां वेदाः संततिरेव च
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्विति अन्नं च नो बहु भवेद् अतिथींश्च लभेमहि
याचितारश्च नः सन्तु मा च याचिष्म कंचन एतदस्त्विति तत्प्रोक्तम् अन्वाहार्यं तु पार्वणम्
यथेन्दुसंक्षये तद्वद् अन्यत्रापि निगद्यते पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा
विप्राग्रतो वा विकिरेद् वयोभिर् अभिवाशयेत् पत्नी तु मध्यमं पिण्डं प्राशयेद् विनयान्विता
आधत्त पितरो गर्भम् अत्र संतानवर्धनम् तावदुच्छेषणं तिष्ठेद् यावद्विप्रा विसर्जिताः
वैश्वदेवं ततः कुर्यान् निवृत्ते पितृकर्मणि इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम्
पुनर् भोजनमध्वानं यानमायासमैथुनम् श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत्
स्वाध्यायकलहं चैव दिवास्वप्नं च सर्वदा अनेन विधिना श्राद्धं निरुद्वास्येह निर्वपेत्
कन्याकुम्भवृषस्थे ऽर्के कृष्णपक्षेषु सर्वदा यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् तत्रानेन विधानेन देयम् अग्निमता सदा