गन्धर्वा राक्षसा यक्षाः सकिंनरमहोरगाः नानाविधायुधाश्चित्रा दधाना हेमभूषणाः
कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम् विश्रामयन्तः स्वां कीर्तिं बन्दिवृन्दपुरःसराः चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः
शतक्रतोरमरनिकायपालिता पताकिनी गजशतवाजिनादिता सितोन्नतध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी
आयान्तीम् अवलोक्याथ सुरसेनां गजासुरः गजरूपी महाम्भोदसंघातो भाति भैरवः
परश्वधायुधो दैत्यो दंशितोष्ठकसंपुटः ममर्द च रणे देवांश् चिक्षेपान्यान्करेण तु
परान्परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः तस्य पातयतः सेनां यक्षगन्धर्वकिंनराः
मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान्
कुन्तान्प्रासान् असींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान् तान्सर्वान्सो ऽग्रसद्दैत्यः कवलानिव यूथपः
कोपास्फालितदीर्घाग्रकरास्फोटेन पातयन् विचचार रणे देवान् दुष्प्रेक्ष्ये गजदानवः
यस्मिन्यस्मिन्निपतति सुरवृन्दे गजासुरः तस्मिंस्तस्मिन्महाशब्दो हाहाकारकृतो ऽभवत्
अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः रुद्राः परस्परं प्रोचुर् अहंकारोत्थितार्चिषः
भो भो गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम् कर्षतैनं शितैः शूलैर् भञ्जतैनं च मर्मसु
कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम् संमार्ज्य वामहस्तेन संरम्भविवृतेक्षणः
अधावद्भृकुटीवक्रो दैत्येन्द्राभिमुखो रणे दृढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम्
जघान कुम्भदेशे तु कपाली गजदानवम् ततो दशापि ते रुद्रा निर्मलायोमयै रणे
जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे स्रुतशोणितरन्ध्रस्तु शितशूलमुखार्दितः
बभौ कृष्णच्छविर् दैत्यः शरदीवामलं सरः प्रोत्फुल्लारुणनीलाब्जसंघातः सर्वतोदिशम्
भस्मशुभ्रतनुछायै रुद्रैर्हंसैरिवावृतः उपस्थितार्तिर्दैत्यो ऽथ प्रचलत्कर्णपल्लवः
शंभुं बिभेद दशनैर् नाभिदेशे गजासुरः दृष्ट्वा सक्तं तु रुद्राभ्यां नव रुद्रास्ततो ऽद्भुतम्
ततक्षुर्विविधैः शस्त्रैः शरीरममरद्विषः निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः
मृतं महिषमासाद्य वने गोमायवो यथा कपालिनं परित्यज्य गतश्चासुरपुंगवः
वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत् ममर्द चरणाघातैर् दन्तैश्चापि करेण च
स तैस्तुमुलयुद्धेन श्रममासादितो यदा तदा कपाली जग्राह करं तस्यामरद्विषः
भ्रामयामास वेगेन ह्य् अतीव च गजासुरम् दृष्ट्वा श्रमातुरं दैत्यं किंचित्स्फुरितजीवितम्
निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम् ततः पतत एवास्य चर्म चोत्कृत्य भैरवम्
स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः
वित्रेसुर्दुद्रुवुर्जग्मुर् निपेतुश्च सहस्रशः दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम्
दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन् एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले
द्विपाधिरूढो दैत्येन्द्रो हतदुन्दुभिना ततः कल्पान्ताम्बुधराभेण दुर्धरेणापि दानवः
निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन्