तदेकादश रुद्रांस्तु चकाराग्रेसरान्हरिः व्यालभोगाङ्गसंनद्धा बलिनो नीलकंधराः
चन्द्रखण्डनृमुण्डालीमण्डितोरुशिखण्डिनः शूलज्वालावलिप्ताङ्गा भुजमण्डलभैरवाः
पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिणः कपालीशादयो रुद्रा विद्रावितमहासुराः
कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः अजेशः शासनः शास्ता शंभुश्चण्डो ध्रुवस्तथा
एत एकादशानन्तबला रुद्राः प्रभाविणः पालयन्तो बलस्याग्रे दारयन्तश्च दानवान्
आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि
प्रचलच्चामरे हेमघण्टासंघातमण्डिते ऐरावते चतुर्दन्ते मातङ्गे ऽचलसंस्थिते
महामदजलस्रावे कामरूपे शतक्रतुः तस्थौ हिमगिरेः शृङ्गे भानुमानिव दीप्तिमान्
तस्यारक्षत्पदं सव्यं मारुतो ऽमितविक्रमः जुगोपापरमग्निस्तु ज्वालापूरितदिङ्मुखः
पृष्ठरक्षो ऽभवद्विष्णुः ससैन्यस्य शतक्रतोः आदित्या वसवो विश्वे मरुतश्चाश्विनावपि
गन्धर्वा राक्षसा यक्षाः सकिंनरमहोरगाः नानाविधायुधाश्चित्रा दधाना हेमभूषणाः
कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम् विश्रामयन्तः स्वां कीर्तिं बन्दिवृन्दपुरःसराः चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः
शतक्रतोरमरनिकायपालिता पताकिनी गजशतवाजिनादिता सितोन्नतध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी
आयान्तीम् अवलोक्याथ सुरसेनां गजासुरः गजरूपी महाम्भोदसंघातो भाति भैरवः
परश्वधायुधो दैत्यो दंशितोष्ठकसंपुटः ममर्द च रणे देवांश् चिक्षेपान्यान्करेण तु
परान्परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः तस्य पातयतः सेनां यक्षगन्धर्वकिंनराः
मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान्
कुन्तान्प्रासान् असींस्तीक्ष्णान् मुद्गरांश्चापि दुःसहान् तान्सर्वान्सो ऽग्रसद्दैत्यः कवलानिव यूथपः
कोपास्फालितदीर्घाग्रकरास्फोटेन पातयन् विचचार रणे देवान् दुष्प्रेक्ष्ये गजदानवः
यस्मिन्यस्मिन्निपतति सुरवृन्दे गजासुरः तस्मिंस्तस्मिन्महाशब्दो हाहाकारकृतो ऽभवत्
अथ विद्रवमाणं तद् बलं प्रेक्ष्य समन्ततः रुद्राः परस्परं प्रोचुर् अहंकारोत्थितार्चिषः
भो भो गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम् कर्षतैनं शितैः शूलैर् भञ्जतैनं च मर्मसु
कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम् संमार्ज्य वामहस्तेन संरम्भविवृतेक्षणः
अधावद्भृकुटीवक्रो दैत्येन्द्राभिमुखो रणे दृढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम्
जघान कुम्भदेशे तु कपाली गजदानवम् ततो दशापि ते रुद्रा निर्मलायोमयै रणे
जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे स्रुतशोणितरन्ध्रस्तु शितशूलमुखार्दितः
बभौ कृष्णच्छविर् दैत्यः शरदीवामलं सरः प्रोत्फुल्लारुणनीलाब्जसंघातः सर्वतोदिशम्
भस्मशुभ्रतनुछायै रुद्रैर्हंसैरिवावृतः उपस्थितार्तिर्दैत्यो ऽथ प्रचलत्कर्णपल्लवः
शंभुं बिभेद दशनैर् नाभिदेशे गजासुरः दृष्ट्वा सक्तं तु रुद्राभ्यां नव रुद्रास्ततो ऽद्भुतम्
ततक्षुर्विविधैः शस्त्रैः शरीरममरद्विषः निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः