कुमारिवध्यो ऽसि रणं विमुञ्च शुम्भासुर स्वल्पतरैरहोभिः वधं न मत्तो ऽर्हसि चेह मूढ वृथैव किं युद्धसमुत्सुको ऽसि
जम्भो वचो विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम् गदामथोद्यम्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः
शुम्भो ऽपि विष्णुं परिघेण मूर्ध्नि प्रमृष्टरत्नौघविचित्रभासा तौ दानवाभ्यां विषमैः प्रहारैर् निपेतुरुर्व्यां घनपावकाभौ
तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः धनूंषि चास्फोट्य सुराभिघातैर् व्यदारयन्भूमिमपि प्रचण्डाः वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान्
अथ संज्ञामवाप्याशु गरुडो ऽपि सकेशवः पराङ्मुखो रणात्तस्मात् पलायत महाजवः
तमालोक्य पलायन्तं विभ्रष्टध्वजकार्मुकम् हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे
दैत्यांश्च मुदितान्दृष्ट्वा कर्तव्यं नाध्यगच्छत अथायान्निकटे विष्णोः सुरेशः पाकशासनः
उवाच चैनं मधुरं प्रोत्साहपरिबृंहकम् किमेभिः क्रीडसे देव दानवैर्दुष्टमानसैः
दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः
तस्मान्न नीचं मतिमान् दुर्गहीनं हि संत्यजेत् अथाग्रेसरसंपत्त्या रथिनो जयमाप्नुयुः
कस्ते सखाभवच्चाग्रे हिरण्याक्षवधे विभो हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः
त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम् पूर्वे ऽप्यतिबला ये च दैत्येन्द्राः सुरविद्विषः
विनाशमागताः प्राप्य शलभा इव पावकम् युगे युगे च दैत्यानां त्वमेवान्तकरो हरे
तथैवाद्येह मग्नानां भव विष्णो सुराश्रयः एवमुक्तस्ततो विष्णुर् व्यवर्धत महाभुजः
ऋद्ध्या परमया युक्तः सर्वभूताश्रयो ऽरिहा अथोवाच सहस्राक्षं कालक्षमम् अधोक्षजः
दैत्येन्द्राः स्वैर्वधोपायैः शक्या हन्तुं हि नान्यतः दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम्
कश्चित्स्त्रीवध्यतां प्राप्तो वधे ऽन्यस्य कुमारिका जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः
तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम् अवध्यः सर्वभूतानां त्वां विना स तु दानवः
मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षो ऽमरारिहा
समादिशत्सुरान्सर्वान् सैन्यस्य रचनां प्रति यत्सारं सर्वलोकेषु वीर्यस्य तपसो ऽपि च
तदेकादश रुद्रांस्तु चकाराग्रेसरान्हरिः व्यालभोगाङ्गसंनद्धा बलिनो नीलकंधराः
चन्द्रखण्डनृमुण्डालीमण्डितोरुशिखण्डिनः शूलज्वालावलिप्ताङ्गा भुजमण्डलभैरवाः
पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिणः कपालीशादयो रुद्रा विद्रावितमहासुराः
कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः अजेशः शासनः शास्ता शंभुश्चण्डो ध्रुवस्तथा
एत एकादशानन्तबला रुद्राः प्रभाविणः पालयन्तो बलस्याग्रे दारयन्तश्च दानवान्
आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि
प्रचलच्चामरे हेमघण्टासंघातमण्डिते ऐरावते चतुर्दन्ते मातङ्गे ऽचलसंस्थिते
महामदजलस्रावे कामरूपे शतक्रतुः तस्थौ हिमगिरेः शृङ्गे भानुमानिव दीप्तिमान्
तस्यारक्षत्पदं सव्यं मारुतो ऽमितविक्रमः जुगोपापरमग्निस्तु ज्वालापूरितदिङ्मुखः
पृष्ठरक्षो ऽभवद्विष्णुः ससैन्यस्य शतक्रतोः आदित्या वसवो विश्वे मरुतश्चाश्विनावपि