पट्टिशैर्मुशलैः पाशैर् गदाभिः कुणपैरपि तीक्ष्णाननैश्च नाराचैश् चक्रैः शक्तिभिरेव च
तानस्त्रान्दानवैर्मुक्तांश् चित्रयोधी जनार्दनः एकैकं शतशश्चक्रे बाणैरग्निशिखोपमैः
ततः क्षीणायुधप्राणा दानवा भ्रान्तचेतसः अस्त्राण्यादातुमभवन्न् असमर्था यदा रणे
तदा मृतैर्गजैरश्वैर् जनार्दनमयोधयन् समन्तात्कोटिशो दैत्याः सर्वतः प्रत्ययोधयन्
बहु कृत्वा वपुर्विष्णुः किंचिच्छान्तभुजो ऽभवत् उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे
गरुत्मन्कच्चिदश्रान्तस् त्वमस्मिन्नपि साम्प्रतम् यद्यश्रान्तो ऽसि तद्याहि मथनस्य रथं प्रति
श्रान्तो ऽस्यथ मुहूर्तं त्वं रणादपसृतो भव इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना
आससाद रणे दैत्यं मथनं घोरदर्शनम् दैत्यस्त्वभिमुखं दृष्ट्वा शङ्खचक्रगदाधरम्
जघान भिन्दिपालेन शितबाणेन वक्षसि तत्प्रहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे
जघान पञ्चभिर्बाणैर् मार्जितैश्च शिलाशितैः पुनर्दशभिर् आकृष्टैस् तं तताड स्तनान्तरे
विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत स मुहूर्तं समाश्वास्य जग्राह परिघं तदा
जघ्ने जनार्दनं चापि परिघेणाग्निवर्चसा विष्णुस्तेन प्रहारेण किंचिदाघूर्णितो ऽभवत्
ततः क्रोधविवृत्ताक्षो गदां जग्राह माधवः मथनं सरथं रोषान् निष्पिपेषाथ रोषतः
स पपाताथ दैत्येन्द्रः क्षयकाले ऽचलो यथा तस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि
अवसादं ययुर्दैत्याः कर्दमे करिणो यथा ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु
प्रकोपाद्रक्तनयनो महिषो दानवेश्वरः प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः
तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् शक्त्या च गरुडं वीरो महिषो ऽभ्यहनद्धृदि
ततो व्यावृत्य वदनं महाचलगुहानिभम् ग्रस्तुमैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम्
अथाच्युतो ऽपि विज्ञाय दानवस्य चिकीर्षितम् वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः
महिषस्याथ ससृजे बाणौघं गरुडध्वजः पिधाय वदनं दिव्यैर् दिव्यास्त्रपरिमन्त्रितैः
स तैर्बाणैरभिहतो महिषो ऽचलसंनिभः परिवर्तितकायो ऽधः पपात न ममार च
महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः महिषासुर मत्तस्त्वं वधं नास्त्रैरिहार्हसि
योषिद्वध्यः पुरोक्तो ऽसि साक्षात्कमलयोनिना उत्तिष्ठ जीवितं रक्ष गच्छास्मात्संगराद्द्रुतम्
तस्मिन्पराङ्मुखे दैत्ये महिषे शुम्भदानवः संदष्टौष्ठपुटः कोपाद् भ्रुकुटीकुटिलाननः
निर्मथ्य पाणिना पाणिं धनुरादाय भैरवम् सज्यं चकार स धनुः शरांश्चाशीविषोपमान्
स चित्रयोधी दृढमुष्टिपातस् ततस्तु विष्णुं गरुडं च दैत्यः बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः परिघातहीनैः
विष्णुश्च दैत्येन्द्रशराहतो ऽपि भुशुण्डिमादाय कृतान्ततुल्याम् तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्त्रं धरणीधराभम्
तस्मादवप्लुत्य हताच्च मेषाद् भूभौ पदातिः स तु दैत्यनाथः ततो महीस्थस्य हरिः शरौघान् मुमोच कालानलतुल्यभासः
शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम् विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः
स तेन विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः ततो ऽस्य किंचिच् चलितस्य धैर्याद् उवाच शङ्खाम्बुजशार्ङ्गपाणिः