अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः कालदण्डास्त्रमकरोत् सर्वलोकभयंकरम्
संधीयमाने तस्मिंस्तु मारुतः परुषो ववौ चकम्पे च मही देवी दैत्या भिन्नधियो ऽभवन्
तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे
नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच ऐषीकमस्त्रं च चकार जम्भस् तत्कालदण्डास्त्रनिवारणाय
यावन्न संध्या न दशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय तावत्क्षणेनैव जघान कोटीर् दैत्येश्वराणां सगजान्सहाश्वान्
अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेण तु कालदण्डम् शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः
जग्राह चक्रं तपनायुताभम् उग्रारमात्मानमिव द्वितीयम् चिक्षेप सेनापतये ऽभिसंध्य कण्ठस्थलं वज्रकठोरमुग्रम्
चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यैः नाशक्नुवन्वारयितुं प्रचण्डं दैवं यथा कर्म मुधा प्रपन्नम्
तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभि जगाम भूयो ऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्ति
तस्मिन्विनिहते दैत्ये ग्रसने लोकनायके निर्मर्यादमयुध्यन्त हरिणा सह दानवाः
पट्टिशैर्मुशलैः पाशैर् गदाभिः कुणपैरपि तीक्ष्णाननैश्च नाराचैश् चक्रैः शक्तिभिरेव च
तानस्त्रान्दानवैर्मुक्तांश् चित्रयोधी जनार्दनः एकैकं शतशश्चक्रे बाणैरग्निशिखोपमैः
ततः क्षीणायुधप्राणा दानवा भ्रान्तचेतसः अस्त्राण्यादातुमभवन्न् असमर्था यदा रणे
तदा मृतैर्गजैरश्वैर् जनार्दनमयोधयन् समन्तात्कोटिशो दैत्याः सर्वतः प्रत्ययोधयन्
बहु कृत्वा वपुर्विष्णुः किंचिच्छान्तभुजो ऽभवत् उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे
गरुत्मन्कच्चिदश्रान्तस् त्वमस्मिन्नपि साम्प्रतम् यद्यश्रान्तो ऽसि तद्याहि मथनस्य रथं प्रति
श्रान्तो ऽस्यथ मुहूर्तं त्वं रणादपसृतो भव इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना
आससाद रणे दैत्यं मथनं घोरदर्शनम् दैत्यस्त्वभिमुखं दृष्ट्वा शङ्खचक्रगदाधरम्
जघान भिन्दिपालेन शितबाणेन वक्षसि तत्प्रहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे
जघान पञ्चभिर्बाणैर् मार्जितैश्च शिलाशितैः पुनर्दशभिर् आकृष्टैस् तं तताड स्तनान्तरे
विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत स मुहूर्तं समाश्वास्य जग्राह परिघं तदा
जघ्ने जनार्दनं चापि परिघेणाग्निवर्चसा विष्णुस्तेन प्रहारेण किंचिदाघूर्णितो ऽभवत्
ततः क्रोधविवृत्ताक्षो गदां जग्राह माधवः मथनं सरथं रोषान् निष्पिपेषाथ रोषतः
स पपाताथ दैत्येन्द्रः क्षयकाले ऽचलो यथा तस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि
अवसादं ययुर्दैत्याः कर्दमे करिणो यथा ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु
प्रकोपाद्रक्तनयनो महिषो दानवेश्वरः प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः
तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् शक्त्या च गरुडं वीरो महिषो ऽभ्यहनद्धृदि
ततो व्यावृत्य वदनं महाचलगुहानिभम् ग्रस्तुमैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम्
अथाच्युतो ऽपि विज्ञाय दानवस्य चिकीर्षितम् वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः
महिषस्याथ ससृजे बाणौघं गरुडध्वजः पिधाय वदनं दिव्यैर् दिव्यास्त्रपरिमन्त्रितैः