संचूर्णितोत्तमाङ्गस्तु निष्पिष्टमुकुटो ऽसुरः स्रुतरक्तौघरन्ध्रस्तु स्रुतधातुरिवाचलः
प्रापतत्स्वे रथे भग्ने विसंज्ञः शिष्टजीवितः पतितस्य रथोपस्थे दानवस्याच्युतो ऽरिहा
स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः गच्छासुर विमुक्तो ऽसि साम्प्रतं जीव निर्भयः
ततः स्वल्पेन कालेन अहमेव तवान्तकः एतच्छ्रुत्वा वचस्तस्य सारथिः कालनेमिनः अपवाह्य रथं दूरम् अनयत्कालनेमिनः
कृष्णचामरजालाढ्ये सुधाविरचिताङ्कुरे चित्रपञ्चपताके तु प्रभिन्नकरटामुखे
पर्वताभे गजे भीमे मदस्राविणि दुर्धरे आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली
तस्यासन्दानवा रौद्रा गजस्य पदरक्षिणः सप्तविंशतिसाहस्राः किरीटकवचोज्ज्वलाः
अश्वारूढश्च मथनो जम्भकश्चोष्ट्रवाहनः शुम्भो ऽपि विपुलं मेषं समारुह्याव्रजद्रणम्
अपरे दानवेन्द्रास्तु यत्ता नानास्त्रपाणयः आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम्
परिघेण निमिर्दैत्यो मथनो मुद्गरेण तु शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा
चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः
तान्यस्त्राणि प्रयुक्तानि शरीरं विविशुर्हरेः गुरूक्तान्युपदिष्टानि सच्छिष्यस्य श्रुताविव
असम्भ्रान्तो रणे विष्णुर् अथ जग्राह कार्मुकम् शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान्
ततो ऽभिसंध्य दैत्यांस्तान् आकर्णाकृष्टकार्मुकः अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषात्
निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम् मथनं दशभिर्बाणैः शुम्भं पञ्चभिरेव च
एकेन महिषं क्रुद्धो विव्याधोरसि पत्त्रिणा जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशो ऽष्टभिः
तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम्
चिछेदाथ धनुर्विष्णोर् निमिर्भल्लेन दानवः संध्यमानं शरं हस्ते चिछेद महिषासुरः
पीडयामास गरुडं जम्भस्तीक्ष्णैस्तु सायकैः भुजं तस्याहनद्गाढं शुम्भो भूधरसंनिभः
छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम् तां प्राहिणोत्स वेगेन मथनाय महाहवे
तामप्राप्तां निमिर्बाणैश् चिछेद तिलशो रणे तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव
जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम्
तम् आयान्तं वियत्येव त्रयो दैत्या न्यवारयन् गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु
शक्त्या च महिषो दैत्यः स्वपक्षजयकाङ्क्षया निराकृतं तमालोक्य दुर्जने प्रणयं यथा
जग्राह शक्तिमुग्राग्राम् अष्टघण्टोत्कटस्वनाम् जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः
तामम्बरस्थां जग्राह गजो दानवनन्दनः गृहीतां तां समालोक्य शिक्षामिव विवेकिभिः
दृढं भारसहं सारम् अन्यदादाय कार्मुकम् रौद्रास्त्रमभिसंधाय तस्मिन्बाणं मुमोच ह
ततो ऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम् ततो बाणमयं सर्वम् आकाशं समदृश्यत
भूर्दिशो विदिशश्चैव बाणजालमया बभुः दृष्ट्वा तदस्त्रमाहात्म्यं सेननीर् ग्रसनो ऽसुरः
ब्राह्ममस्त्रं चकारासौ सर्वास्त्रविनिवारणम् तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम्