पराजयं महेन्द्रस्य सर्वलोकक्षयावहम् चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात्
जगर्जुर्जलदा दिक्षु ह्य् उद्भूताश्च महार्णवाः तां भूतविकृतिं दृष्ट्वा भगवान्गरुडध्वजः
व्यबुध्यताहिपर्यङ्के योगनिद्रां विहाय तु लक्ष्मीकरयुगाजस्रलालिताङ्घ्रिसरोरुहः
शरदम्बरनीलाब्जकान्तदेहछविर्विभुः कौस्तुभोद्भासितोरस्कः कान्तकेयूरभास्वरः
विमृश्य सुरसंक्षोभं वैनतेयं समाह्वयत् आहूते ऽवस्थिते तस्मिन् नागावस्थितवर्ष्मणि
दिव्यनानास्त्रतीक्ष्णार्चिर् आरुह्यागात् सुरान्स्वयम् तत्रापश्यत देवेन्द्रम् अभिद्रुतमभिप्लुतैः
दानवेन्द्रैर्नवाम्भोदसच्छायैः पौरुषोत्कटैः यथा हि पुरुषं घोरैर् अभाग्यैर्वंशशालिभिः
परित्राणायाशु कृतं सुक्षेत्रे कर्म निर्मलम् अथापश्यन्त दैतेया वियति ज्योतिर्मण्डलम्
स्फुरन्तमुदयाद्रिस्थं सूर्यमुष्णत्विषा इव प्रभावं ज्ञातुमिच्छन्तो दानवास्तस्य तेजसः
गरुत्मन्तमपश्यन्तः कल्पान्तानलसंनिभम् तमास्थितं च मेघौघद्युतिमक्षयमच्युतम्
तम् आलोक्यासुरेन्द्रास्तु हर्षसम्पूर्णमानसाः अयं वै देवसर्वस्वं जिते ऽस्मिन्निर्जिताः सुराः
अयं स दैत्यचक्राणां कृतान्तः केशवो ऽरिहा एनमाश्रित्य लोकेषु यज्ञभागभुजो ऽमराः
इत्युक्त्वा दानवाः सर्वे परिवार्य समन्ततः निजघ्नुर्विविधैरस्त्रैस् ते तम् आयान्तम् आहवे
कालनेमिप्रभृतयो दश दैत्या महारथाः षष्ट्या विव्याध बाणानां कालनेमिर्जनार्दनम्
निमिः शतेन बाणानां मथनो ऽशीतिभिः शरैः जम्भकश्चैव सप्तत्या शुम्भो दशभिरेव च
शेषा दैत्येश्वराः सर्वे विष्णुमेकैकशः शरैः दशभिश्चैव यत्तास्ते जघ्नुः सगरुडं रणे
तेषाम् अमृष्य तत्कर्म विष्णुर्दानवसूदनः एकैकं दानवं जघ्ने षड्भिः षड्भिरजिह्मगैः
आकर्णकृष्टैर्भूयश्च कालनेमिस् त्रिभिः शरैः विष्णुं विव्याध हृदये क्रोधाद्रक्तविलोचनः
तस्याशोभन्त ते बाणा हृदये तप्तकाञ्चनाः मयूखानीव दीप्तानि कौस्तुभस्य स्फुटत्विषः
तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम् सततं भ्राम्य वेगेन दानवाय व्यसर्जयत्
दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः चिछेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम्
ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम् तेन दैत्यस्य हृदयं ताडयामास गाढतः
क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः शक्तिं जग्राह तीक्ष्णाग्रां हेमघण्टाट्टहासिनीम्
तया वामभुजं विष्णोर् बिभेद दितिनन्दनः भिन्नः शक्त्या भुजस्तस्य स्रुतशोणित आबभौ
पद्मरागमयेनेव केयूरेण विभूषितः ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः
सप्तदश च नाराचांस् तीक्ष्णान्मर्मविभेदिनः दैत्यस्य हृदयं षड्भिर् विव्याध च त्रिभिः शरैः
चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्त्रिणा द्वाभ्यां ज्याधनुषी चापि भुजं सव्यं च पत्त्रिणा
स विद्धो हृदये गाढं दैत्यो हरिशिलीमुखैः स्रुतरक्तारुणप्रांशुः पीडाकुलितमानसः
चकम्पे मारुतेनेव नोदितः किंशुकद्रुमः तमाकम्पितमालक्ष्य गदां जग्राह केशवः
तां च वेगेन चिक्षेप कालनेमिरथं प्रति सा पपात शिरस्युग्रा विपुला कालनेमिनः