दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात् बीजाङ्कुरा इवाम्लानाः प्राप्य वृष्टिं धरातले
ततः स मेघरूपी तु कालनेमिर्महासुरः शस्त्रवृष्टिं ववर्षोग्रां देवानीकेषु दुर्जयाम्
तया वृष्ट्या बाध्यमाना दैत्येन्द्राणां महौजसाम् गतिं कां च न पश्यन्तो गावः शीतार्दिता इव
परस्परं व्यलीयन्त पृष्ठेषु व्यस्त्रपाणयः स्वेषु बाधे व्यलीयन्त गजेषु तुरगेषु च
रथेषु त्वमरास्त्रस्तास् तत्र तत्र निलिल्यिरे अपरे कुञ्चितैर्गात्रैः स्वहस्तपिहिताननाः
इतश्चेतश्च संभ्रान्ता बभ्रमुर्वै दिशो दश एवंविधे तु संग्रामे तुमुले देवसंक्षये
दृश्यन्ते पतिता भूमौ शस्त्रभिन्नाङ्गसंधयः विभुजा भिन्नमूर्धानस् तथा छिन्नोरुजानवः
विपर्यस्तरथासङ्गा निष्पिष्टध्वजपङ्क्तयः निर्भिन्नाङ्गैस्तुरंगैस्तु गजैश्चाचलसंनिभैः
स्रुतरक्तह्रदैर्भूमिर् विकृताविकृता बभौ एवमाजौ बली दैत्यः कालनेमिर्महासुरः
जघ्ने मुहूर्तमात्रेण गन्धर्वाणां दशायुतम् यक्षाणां पञ्च लक्षाणि रक्षसामयुतानि षट्
त्रीणि लक्षाणि जघ्ने स किंनराणां तरस्विनाम् जघ्ने पिशाचमुख्यानां सप्त लक्षाणि निर्भयः
इतरेषामसंख्याताः सुरजातिनिकायिनाम् जघ्ने स कोटीः संक्रुद्धश् चित्रास्त्रैरस्त्रकोविदः
एवं परिभवे भीमे तदा त्वमरसंक्षये संक्रुद्धावश्विनौ देवौ चित्रास्त्रकवचोज्ज्वलौ
जघ्नतुः समरे दैत्यं कृतान्तानलसंनिभम् तमासाद्य रणे घोरम् एकैकः षष्टिभिः शरैः
जघ्ने मर्मसु तीक्ष्णाग्रैर् असुरं भीमदर्शनम् ताभ्यां बाणप्रहारैः स किंचिदायस्तचेतनः
जग्राह चक्रमष्टारं तैलधौतं रणान्तकम् तेन चक्रेण सो ऽश्विभ्यां चिछेद रथकूबरम्
जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान् ववर्ष भिषजो मूर्ध्नि संछाद्याकाशगोचरम्
तावप्यस्त्रैश्चिछिदतुः शितैस्तैर्दैत्यसायकान् तच्च कर्म तयोर्दृष्ट्वा विस्मितः कोपमाविशत्
महता स तु कोपेन सर्वायोमयसादनम् जग्राह मुद्गरं भीमं कालदण्डविभीषणम्
स ततो भ्राम्य वेगेन चिक्षेपाश्विरथं प्रति तं तु मुद्गरम् आयान्तम् आलोक्याम्बरगोचरम्
त्यक्त्वा रथौ तु तौ वेगाद् आप्लुतौ तरसाश्विनौ तौ रथौ स तु निष्पिष्य मुद्गरो ऽचलसंनिभः
दारयामास धरणीं हेमजालपरिष्कृतः तस्य कर्माश्विनौ दृष्ट्वा भिषजौ चित्रयोधिनौ
वज्रास्त्रं तु प्रकुर्वाते दानवेन्द्रनिवारणम् ततो वज्रमयं वर्षं प्रावर्तद् अतिदारुणम्
घोरवज्रप्रहारैस्तु दैत्येन्द्रः स परिष्कृतः रथो ध्वजो धनुश्चक्रं कवचं चापि काञ्चनम्
क्षणेन तिलशो जातं सर्वसैन्यस्य पश्यतः तद्दृष्ट्वा दुष्करं कर्म सो ऽश्विभ्यां भीमविक्रमः
नारायणास्त्रं बलवान् मुमोच रणमूर्धनि वज्रास्त्रं शमयामास दानवेन्द्रो ऽस्त्रतेजसा
तस्मिन्प्रशान्ते वज्रास्त्रे कालनेमिरनन्तरम् जीवग्राहं ग्राहयितुम् अश्विनौ तु प्रचक्रमे
तावश्विनौ रणाद्भीतौ सहस्राक्षरथं प्रति प्रयातौ वेपमानौ तु पदा शस्त्रविवर्जितौ
तयोरनुगतो दैत्यः कालनेमिर्महाबलः प्राप्येन्द्रस्य रथं क्रूरो दैत्यानीकपदानुगः
तं दृष्ट्वा सर्वभूतानि वित्रेसुर्विह्वलानि तु दृष्ट्वा दैत्यस्य तत्क्रौर्यं सर्वभूतानि मेनिरे