दिशश्च मायया चण्डैः पूरयामास पावकैः ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात्
तेन ज्वालासमूहेन हिमांशुरगमच्छमम् ततः क्रमेण विभ्रष्टं शीतदुर्दिनम् आबभौ
तद्बलं दानवेन्द्राणां मायया कालनेमिनः तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः उवाचारुणमुद्भ्रान्तः कोपाल्लोकैकलोचनः
नयारुण रथं शीघ्रं कालनेमिरथो यतः विमर्दस्तत्र विषमो भविता शूरसंक्षयः
जित एष शशाङ्को ऽत्र यद्बलं वयमाश्रिताः इत्युक्तश्चोदयामास रथं गरुडपूर्वजः
प्रयत्नविधृतैरश्वैः सितचामरमालिभिः जगद्दीपो ऽथ भगवाञ् जग्राह विततं धनुः
शरौ च द्वौ महाभागो दिव्यावाशीविषद्युती संचारास्त्रेण संधाय बाणमेकं ससर्ज सः
द्वितीयमिन्द्रजालेन योजितं प्रमुमोच ह संचारास्त्रेण रूपाणां क्षणाच्चक्रे विपर्ययम्
देवानां दानवं रूपं दानवानां च दैविकम् मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात्
कालनेमी रुषाविष्टः कृतान्त इव संक्षये कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन् नाराचवृष्टिभिः कांश्चिद्गदाभिर्घोराभिः कांश्चिद्घोरैः परश्वधैः
शिरांसि केषांचिदपातयच्च भुजान्रथान्सारथींश्चोग्रवेगः कांश्चित् पिपेषाथ रथस्य वेगात् कांश्चित्क्रुधा चोद्धतमुष्टिपातैः
रणे विनिहतान्दृष्ट्वा नेमिः स्वान्दानवाधिपः रूपं स्वं तु प्रपद्यन्त ह्य् असुराः सुरधर्षिताः
कालनेमी रुषाविष्टस् तेषां रूपं न बुद्धवान् नेमिदैत्यस्तु तान्दृष्ट्वा कालनेमिमुवाच ह
अहं नेमिः सुरो नैव कालनेमे विदस्व माम् भवता मोहितेनाजौ निहता भूरिविक्रमाः
दैत्यानां दशलक्षाणि दुर्जयानां सुरैरिह सर्वास्त्रवारणं मुञ्च ब्राह्ममस्त्रं त्वरान्वितः
स तेन बोधितो दैत्यः सम्भ्रमाकुलचेतनः योजयामास बाणं हि ब्रह्मास्त्रविहितेन तु
मुमोच चापि दैत्येन्द्रः स स्वयं सुरकण्टकः ततो ऽस्त्रतेजसा व्याप्तं त्रैलोक्यं सचराचरम्
देवानां चाभवत्सैन्यं सर्वमेव भयान्वितम् संचरास्त्रं च संशान्तं स्वयमायोधने बभौ
तस्मिन्प्रतिहते ह्यस्त्रे भ्रष्टतेजा दिवाकरः महेन्द्रजालमाश्रित्य चक्रे स्वां कोटिशस्तनुम्
विस्फूर्जत्करसम्पातसमाक्रान्तजगत्त्रयम् तताप दानवानीकं गतमज्जौघशोणितम्
ततश्चावर्षदनलं समन्ताद् अतिसंहतम् चक्षूंषि दानवेन्द्राणां चकारान्धानि च प्रभुः
गजानामगलन्मेदः पेतुश्चाप्यरवा भुवि तुरगा निःश्वसन्तश्च घर्मार्ता रथिनो ऽपि च
इतश्चेतश्च सलिलं प्रार्थयन्तस्तृषातुराः प्रच्छायविटपांश्चैव गिरीणां गह्वराणि च
तेषां प्रार्थयतां शीतं द्रुमान्तरविसर्पिणाम् दावाग्निः प्रज्वलंश्चैव घोरार्चिर्दग्धपादपः तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लोलमालिनम्
पुरःस्थितमपि प्राप्तुं न शेकुरवमर्दिताः अप्राप्य सलिलं भूमौ व्यात्तास्या गतचेतसः
तत्र तत्र व्यदृश्यन्त मृता दैत्येश्वरा भुवि रथा गजाश्च पतितास् तुरगाश्च समापिताः
स्थिता वमन्तो धावन्तो गलद्रक्तवसासृजः दानवानां सहस्राणि व्यदृश्यन्त मृतानि तु
संक्षये दानवेन्द्राणां तस्मिन्महति वर्तिते प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः
अभवत्कल्पमेघाभः स्फुरद्भूरिशतह्रदः गम्भीरास्फोटनिर्ह्रादजगद्धृदयघट्टकः
प्रच्छाद्य गगनाभोगं रविमायां व्यनाशयत् शीतं ववर्ष सलिलं दानवेन्द्रबलं प्रति