पुराणवेत्ता धर्मज्ञः स्वाध्यायजपतत्परः शिवभक्तः पितृपरः सूर्यभक्तो ऽथ वैष्णवः
ब्रह्मण्यो योगविच्छान्तो विजितात्मा च शीलवान् भोजयेच्चापि दौहित्रं यत्नतः स्वसुहृद्गुरून्
विट्पीतं मातुलं बन्धुम् ऋत्विगाचार्यसोमपान् यश्च व्याकुरुते वाक्यं यश्च मीमांसते ऽध्वरम्
सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः सामगो ब्रह्मचारी च वेदयुक्तो ऽथ ब्रह्मवित्
यत्रैते भुञ्जते श्राद्धे तदेव परमार्थवत् एते भोज्याः प्रयत्नेन वर्जनीयान्निबोध मे
पतितो ऽभिशस्तः क्लीबः पिशुनव्यङ्गरोगिणः कुनखी श्यावदन्तश्च कुण्डगोलाश्वपालकाः
परिवित्तिर्नियुक्तात्मा प्रमत्तोन्मत्तदारुणाः बैडाली बकवृत्तिश्च दम्भी देवलकादयः
कृतघ्नान्नास्तिकांस् तद्वन् म्लेच्छदेशनिवासिनः त्रिशङ्कुर् बर्बरद्राववीतद्रविडकोङ्कणान्
वर्जयेल्लिङ्गिनः सर्वाञ् श्राद्धकाले विशेषतः पूर्वेद्युरपरेद्युर्वा विनीतात्मा निमन्त्रयेत्
निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् वायुभूता नु गच्छन्ति तथासीनानुपासते
दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः एवं निमन्त्र्य नियमं श्रावयेत्पितृबान्धवान्
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा
पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु यो ऽग्निमान् पिण्डान्वाहार्यकं कुर्याच् छ्राद्धमिन्दुक्षये सदा
गोमयेनोपलिप्ते तु दक्षिणप्रवणे स्थले श्राद्धं समाचरेद्भक्त्या गोष्ठे वा जलसंनिधौ
अग्निमान्निर्वपेत्पित्र्यं चरुं च सममुष्टिभिः पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत्
अभिघार्यं ततः कुर्यान् निर्वापत्रयमग्रतः ते ऽपि तस्यायताः कार्याश् चतुरङ्गुलविस्तृताः
दर्वीत्रयं तु कुर्वीत खादिरं रजतान्वितम् रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम्
उदपात्रं च कांस्यं च मेक्षणं च समित्कुशान् तिलाः पात्राणि सद्वासो गन्धधूपानुलेपनम्
आहरेदपसव्यं तु सर्वं दक्षिणतः शनैः एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् अक्षताभिः सपुष्पाभिस् तदभ्यर्च्यापसव्यवत्
विप्राणां क्षालयेत् पादाव् अभिनन्द्य पुनः पुनः आसनेषूपकॢप्तेषु दर्भवत्सु विधानवत्
उपस्पृष्टोदकान्विप्रान् उपवेश्यानुमन्त्रयेत् द्वौ दैवे पितृकृत्ये त्रीन् एकैकमुभयत्र च
भोजयेदीश्वरो ऽपीह न कुर्याद्विस्तरं बुधः दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः
अग्नौ कुर्यादनुज्ञातो विप्रैर् विप्रो यथाविधि स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः
अग्नीषोमयमाभ्यां तु कुर्यादाप्यायनं बुधः दक्षिणाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः
यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम् प्राचीनावीतिना कार्यम् अतः सर्वं विजानता
षट् च तस्माद्धविःशेषात् पिण्डान्कृत्वा ततोदकम् दद्यादुदकपात्रैस् तु सतिलं सव्यपाणिना
जान्व् आच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः विधाय लेखा यत्नेन निर्वापेष्ववनेजनम्
दक्षिणाभिमुखः कुर्यात् करे दर्वीं निधाय वै निधाय पिण्डम् एकैकं सर्वदर्भेष्वनुक्रमात्
निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनाम्